________________
१८६
संगीतरत्नाकरः तारे दीप्तप्रसन्नोऽसौ सुकरः कोमलध्वनिः । प्रसन्नमृदुरित्युक्तो गुरुरन्वर्थनामकः॥ १७२ ॥ ह्रखः स्तोकः परौ द्वौ तु स्यातामन्वर्थनामको । शब्दशारीरगुणतः सुकरः सुखरोऽथवा ॥ १७३ ॥ यः कस्यचिन्न सर्वेषां सोऽसाधारण उच्यते । सहशो यस्तु सर्वेषामसौ साधारणः स्मृतः॥ १७४ ॥ न वाञ्छति वहन्यादिर्यः स्वनिर्वाहहेतवे । उच्यते स निराधारः सुकरो दुष्करोपमः॥ १७ ॥ दुष्कराभास इत्युक्तो मिश्रणान्मिश्रको मतः।
(c) मिश्रस्थायाः आनन्त्यान्नैव शक्यन्ते भेदा मिश्रस्य लक्षितुम् ॥१७६॥ दिक्प्रदर्शनमात्रार्थमुच्यन्ते तेषु केचन ।
यो यस्मिन् बहुलः स्थायः स तेन व्यपदिश्यते ॥१७७॥ संपूर्णः प्रतिभाति, स दीप्तप्रसन्नः । यस्तु सुखेन कर्तुं शक्यते सुकुमारध्वनिश्च, स प्रसन्नमृदुः । गुरुर्लाघवहीनो यथार्थः । यस्तु खर्व इव प्रतिभाति, स ह्रस्वः । परौ शिथिलगाढदी? सार्थकनामानौ । यस्तु कस्यचिदेव पुरुषस्य शब्दगुणेन शारीरगुणेन वा सुकरः सुखेन कर्तुं शक्यः, सुस्वरः अपस्वरहीनो वा; न तु सर्वेषां पुरुषाणां, सोऽसाधारणः। यस्तु वहन्यादिर्वहनीवलिहुम्फितादिः स्वनिर्वाहहेतवेऽन्यदङ्गकम्पितादि न वाञ्छति, स निराधारः। एतेषा मुक्तानां स्थायानां किंचिल्लक्षणमिश्रणान्मिश्रः । इति त्रयस्त्रिंशत् संकीर्णाः स्थायाः ॥ १६३-१७६ ॥
_ (सं०) कियतो मिश्रभेदान् कथयितुमाह- आनन्त्यादिति । मिश्रस्य स्थायस्य भेदा: सामस्त्येन लक्षयितुमशक्याः; तस्मादभ्यूहनप्रकारार्थ कियन्तश्चित् कथ्यन्त इत्यर्थः । ननु मिश्रभेदानां नामानि किमिति न प्रदर्श्यन्ते ? अत
Scanned by Gitarth Ganga Research Institute