________________
तृतीयः प्रकीर्णकाध्यायः
१८५ तत्प्राधान्येन ये गीताः स्थाया जीवखरस्य ते । वेदध्वनिनिभध्वानाः स्थाया वेदध्वनेर्मताः ॥ १६६ ॥ अन्तःसारो घनत्वस्य यथार्थः शिथिलो मतः । दुष्करोऽवघटः प्रोक्तः प्लुतोऽत्यन्तविलम्बितः॥१६७॥ रागेणेष्टः स्वपूत्यर्थे रागेष्ट इति कीर्तितः। स स्यादपखराभासो भात्यपवरवत्तु यः॥ १६८॥ स्तब्धःस्थायस्तु बद्धः स्याहहुत्वं मधुरध्वनेः। यस्मिन् कलरवस्यासौ छान्दसोऽचतुरप्रियः ॥ १६९॥ सुकराभास इत्युक्तो दुष्करः सुकरोपमः। घण्टानादवदायातस्तारान्मन्द्रं तु संहितः ॥९७०॥ लघुर्गुरुत्वरहितो ध्रुवकाभोगयोस्तु यः।
अन्तरे सोऽन्तरो वक्रो यथार्थः सुकरस्तु' यः॥१७१॥ तं मुख्यं कृत्वा ये स्थाया गीयन्ते, ते जीवस्वरसंबन्धिनः । येषु स्थायेषु वेदध्वनिरिव प्रतिभाति, ते वेदध्वनिसंबन्धिनः । ये मध्ये भृता इव घनाः प्रतिभान्ति, ते घनत्वसंबन्धिनः । शिथिलो घनत्वप्रतियोग्यन्वर्थः । दुःखेन कर्तुं शक्यते यः, सोऽवघटः । यस्त्वत्यन्तविलम्बन गीयते, स प्लुतः । यस्तु रागेण स्वपूरणायाकाझ्यते, येन विना रागोऽपरिपूर्ण इव प्रतिभाति, स रागेष्टः। यस्तु सुस्वरोऽप्यपस्वरवदवदवभासते, सोऽपस्वराभासः । यस्तु निगलित इव स्तब्धस्तिष्ठति स्थायः, स बद्धः । यत्र मधुरध्वनेरनल्पत्वं, स कलरवसंबन्धी । यस्तु छान्दसानामचतुराणामविदग्धानां प्रियः, स छान्दसः । यस्तु दुष्करोऽपि सुकरः सुखगेय इवावभासते, स सुकराभासः। यस्तु घण्टानादवदनुरणनयुक्ततया तारस्थानान्मन्द्रस्थानं प्रयाति, स संहित इत्युच्यते । यस्तु गुरुत्वेन हीनो लाघवेन गीयते, स लघुरित्युच्यते । यस्तु धुवकाभोगयोः पदयोरन्तरा गीयते, सोऽन्तरः । यस्तु तारस्थाने सकलोऽन्यूनः
1 सकलस्तु इति सुधाकरपाठः।
24
Scanned by Gitarth Ganga Research Institute