________________
१८४
संगीतरत्नाकरः प्रसृताकुश्चितः स्थायः प्रसार्याकुश्चितध्वनिः । स्थायिवर्णस्थितिः कम्पः स्थिर इत्यभिधीयते ॥१६०॥ एकैकस्मिन् स्वरे स्थित्वा स्थित्वा वाथ द्वयोर्द्वयोः।। त्रिषु त्रिष्वथवा स्थायो रचितः स्थायुको मतः॥१६१॥ ऊवं प्रसारितः क्षिप्तः सूक्ष्मान्तोऽन्तेऽल्पतां गतः। शब्दः प्रकाशते येषु धृतिभृत्यादिवर्जितः ॥ १६२॥ स्वभावादेव शब्दस्य प्रकृतिस्थस्य ते मताः। येषु सूक्ष्मीकृताः शब्दास्ते कलायाः प्रकीर्तिताः ॥१६॥ भृशं प्राणप्रतिग्राह्या ये स्युराकमणस्य ते। ते स्थाया घटनाया ये शिल्पिना घटिता इव ॥१६४॥ सुखदास्तु सुखस्य स्युश्चालिजकेति कीर्तिता। स्थायास्तदन्विताश्चालेरंशो जीवखरो मतः॥१६५॥
विस्तार्य आकुञ्च्यते संक्षिप्यते, स प्रसृताकुञ्चितः । स्थायिवर्णे स्थितानां स्वराणां कम्पो यस्मिन् , स स्थिरः । एकैकस्मिन् स्वरे द्वयोर्द्वयोर्वा स्वरयोस्त्रिषु वा स्वरेषु स्थित्वा क्षणं स्थिरीभूय यो विरच्यते स्थायः, स स्थायुक इत्युच्यते । ऊर्य तारस्थाने प्रसारितो विसारित: क्षिप्त इत्युच्यते । यः पूर्व स्थूल: अन्तेऽल्पतां नीतः, स सूक्ष्मान्तः । इत्यसंकीर्णा विंशतिः स्थायाः ।। __अथ त्रयस्त्रिंशतं संकीर्णान् लक्षयति--शब्द इति । धृतिभृत्यादिवर्जितः आकुञ्चनपूरणादिहीनः शब्दः स्वाभाविको येषु स्थायेषु प्रकाशते, ते प्रकृतिस्थशब्दसंबन्धिनः । येपु स्थायेषु शब्दः सूक्ष्मोऽल्पः क्रियते, ते कलासंबन्धिनः । भृशम् अतिशयेन प्राणेन बलेन ये प्रतिग्रहीतुं शक्यन्ते, ते आक्रमणसबन्धिनः । ये शिल्पिना घटिताः स्तम्भा इव प्रतिभान्ति, ते घटनासंबन्धिनः । ये सुखदाः; ते सुखसंबन्धिनः । चालिः भङ्गिविशेषेण स्वराणां चालनम् ; सा लोके जक्केति कथ्यते ; तदन्विताः स्थायाश्चालिसंबन्धिनः । अंशस्वरो जीवस्वर इत्युच्यते ।
Scanned by Gitarth Ganga Research Institute