________________
१८३
तृतीयः प्रकीर्णकाध्यायः परितोऽर्धभृते कुम्भे जलं डोलायते यथा। गीते तथाविधः स्थायः प्रोक्तस्तज्ज्ञैः सलम्बितः॥ अवस्खलति यो मन्द्रादवरोहेण वेगतः। सोऽवस्खलित इत्युक्तस्त्रोटितस्तु स्वरे क्वचित् ॥१५५॥ चिरं स्थित्वाग्निवत्तारं स्पृष्ट्वा प्रत्यागतो भवेत् । घनखरोऽवरोहे स्यात् संप्रविष्टस्तथाविधः ॥ १५६ ॥ आरोहिण्युत्प्रविष्टः स्यादन्वर्थाः स्युः परे त्रयः। प्रतिग्राह्योल्लासितः स्यादसौ यः प्रतिगृह्यते ॥ १५७॥ उत्क्षिप्योत्क्षिप्य निपतन् केलिकन्दुकसुन्दरः। द्रुतपूर्वो विलम्बान्तः 'स्यादलम्बविलम्बकः ॥१५८॥ स्यात् नोटितप्रतीष्टोऽसौ यत्र स्यात्तारमन्द्रयोः । प्रथमं त्रोटयित्वैकमपरस्य प्रतिग्रहः ॥ १५९ ॥
यथोदकं डोलायते, तथाविधः स्थाय: सलम्बित इत्युच्यते । कचित् प्रलम्बित इति पाठः। यस्त्ववरोहन् मन्द्रात् अवस्खलति शीघ्रं मन्द्रं परित्यजति, सोऽवस्खलित इत्युच्यते । कस्मिश्चित् स्वरे चिरं स्थित्वा अग्निवत् सकृत्तारं स्पृष्ट्वा पुनरपि तं स्वरं प्रत्यागतः त्रोटित इत्युच्यते । अवरोहे घनाः निबिडाः स्वरा यस्मिन् , स संप्रविष्टः। आरोहे तथाविधो घनस्वरः । अन्ये त्रयः नि:सारणभ्रामितदीर्घकम्पिता: | अन्वर्थनाम्नैव लक्षणप्रतीतिस्तेषां त्रयाणामित्यर्थः। यत्र स्वराणां निःसरणमिव भ्रमणं दीर्घकम्पनं च, ते तथाविधा इत्यर्थः । यः क्रीडाकन्दुकवनिपतन्नुत्क्षिप्योत्क्षिप्य गृह्यते, स प्रतिग्राह्योल्लासितः । यस्तु पूर्व द्रुतमानेन पश्चात विलम्बितमानेन गीयते, सोऽविलम्बविलम्बकः । यत्र तारमन्द्रयोरुभयोः स्वरयोर्मध्ये प्रथमं त्रोटयित्वा निरस्य अपरस्य द्वितीयस्य प्रतिग्रहणं स्वीकारो गानमिति यावत् , स नोटितप्रतीष्टः । यस्य ध्वनिः प्रसार्य
1 सोऽविलम्बेति सुधाकरसंमतः पाठः।
Scanned by Gitarth Ganga Research Institute