________________
१८२
संगीतरत्नाकरः
प्रसृतः प्रसरोपेतः स्निग्धो रूक्षत्ववर्जितः ॥ १४८ ॥ उज्ज्वलो गदितचोक्ष उचितस्तु यथार्थकः । सुदेशिको विदग्धानां वल्लभोऽपेक्षितस्तु सः ॥ १४९ ॥ स्थाय: स्थायेन पूर्वेण पूर्त्यर्थं योऽभिकाङ्क्षितः । वलौ वहे वहन्यां च यः स्निग्धमधुरो महान् ॥ १५०॥ मन्द्रे ध्वनिः स घोषः स्यात्तद्युक्ता घोषजा मताः गम्भीरमधुरध्वाना मन्द्रे ये स्युः खरस्य ते ॥ १५१ ॥ (b) अप्रसिद्धस्थायाः
वहन्त इव कम्पन्ते खरा येषु वहस्य ते । अक्षराडम्बरो येषु मुख्यास्ते स्युस्तदन्विताः ॥१५२॥ वेगेन प्रेरितैरूर्ध्वं स्वरैरुल्लासितो मतः । यत्र गङ्गातरङ्गन्ति खराः स स्यात्तरङ्गितः ॥ १५३ ॥
सुकुमारः । प्रसरेण विस्तरेणोपेतो युक्तः प्रसृतः । स्नेहवान् स्निग्धः । उज्ज्वलो दीप्तिमान् चोक्ष इत्युच्यते । औचित्यं यत्र विद्यते स उचितः । यस्तु विदग्धानां सहृदयानां वल्लभः प्रियः, स सुदेशिकः । पूर्वेण स्थायेन यः स्वपूर्त्यर्थमाकाङ्क्ष्यते, सोऽपेक्षितः। वलौ वदिसंज्ञके गमके वहे स्वरकम्पे वहन्यां पूर्वो च य: स्नेहवान् मधुरः स्थूलो मन्द्रस्थानीयो ध्वनिः, स घोष इत्युच्यते ; तद्युक्ताः स्थायाः घोषसंबन्धिनः । ये मन्द्रस्थाने गम्भीरमधुरध्वनयः, ते स्वरस्य संबन्धिनो ज्ञेयाः । इति त्रयस्त्रिंशत् संकीर्णाः स्थायाः ॥ ११२-१५१ ॥ अधासंकीर्णान् विंशति स्थायान् लक्षयति — वहन्त इति । येषु स्थायेषु स्वराः वहन्त इव कम्पन्ते यथा भूरिभाराकान्ताः कम्पन्ते तद्वत्, ते वहसंबन्धिनः स्थायाः । येषु स्थायेष्वक्षराणामांडम्बर: प्रौढिः, तेऽक्षरा - डम्बरसंबन्धिनः । यत्र वेगेनोर्ध्व प्रेषितैः खरैर्युक्तः, स उल्लासितः । यत्र स्थाये गङ्गातरङ्गवदाचरन्ति स्वराः, स तरङ्गितः । आचारार्थे क्विप् । अर्धपूर्णे कलशे
Scanned by Gitarth Ganga Research Institute