________________
तृतीयः प्रकीर्णकाध्यायः
१७९ अवरोहणे वा वर्णे स्वराणां कम्पनं वहनीत्युच्यते । संचारिण्यपि वर्णे स्थिरं कम्पनं वहनीत्युच्यते । सा वहनी द्विविधा-गीतवहनी, आलप्तिवहनीति । पुनरपि द्विविधा-स्थिरा, वेगाड्या चेति । पुनरपि त्रिविधा-हृद्या, कण्ठ्या, शिरस्या चेति । हृदयोद्भवा पुनरपि द्विविधा-खुत्ता, उत्फुल्ला चेति । तयोर्लक्षणमाह-यस्यामिति । यस्यां स्वरा अन्तर्विशन्त इव श्रूयन्ते, सा खुत्ता। यस्यां तूपरि निर्गच्छन्त इव स्वराः श्रूयन्ते, सा उत्फुल्ला । वहनीभेदान् वलावतिदिशति-वलिरिति । एवंविधा वहनी येषु स्थायेषु, ते वहनीसंबन्धिनः । अन्ये वहनीभेदा अन्वर्थनामत्वान्न लक्षिताः। वाद्यशब्दस्य स्थायान् लक्षयतिरागमना इति । रागमना रागानुरञ्जिताः । ये वीणादिष्वेव बाहुल्येन प्रायो दृश्यन्ते, ते यन्त्रसंबन्धिनः । छायाभेदसंबन्धिनः स्थायान् कथयितुमाहछाया काकुरिति छाया काकुरित्युच्यते।सा हि षडिधा-स्वरकाकुः,रागकाकुः, अन्यरागकाकु:, देशकाकुः, क्षेत्रकाकु:, यन्त्रकाकुरिति । एतासां लक्षणं कथयति-तल्लक्षणमिति । अन्यस्वरस्यान्यस्मिन् स्वरे या छाया श्रुतीनां न्यूनत्वेनाधिक्येन वा जायते, सा स्वरकाकुः । सा च रागे भवति । या रागस्य निजा मुख्या छाया, सा रागकाकुः । अन्यरागस्यान्यस्मिन् रागे या छाया, सा अन्यरागकाकुः । देशे देशे देशस्वभावेन या छाया, सा देशकाकुः । क्षेत्रं देहमुच्यते । मनुष्याणां प्रतिदेहं यश्छायाविशेषः, सा क्षेत्रकाकुः । वीणावंशादियन्त्रादुत्थिता यन्त्र एव या प्रतीयते रागच्छाया, सा यन्त्रकाकु: । एवं स्थायकारणभूतां छायां निरूप्य स्थायं निरूपयति-अन्यच्छायेति । अन्यस्याश्छायायाः प्रवृत्तौ गाने प्रकृते अन्यच्छायाश्रयेण ये स्थायाः प्रवर्तन्ते, ते छायासंबन्धिनः । स्वरलचिताख्यं स्थायं लक्षयति-मध्ये मध्य इति । मध्ये मध्ये बहून् त्रिचतुरान् स्वरान् लङ्घयन् यः प्रवर्तते, स स्वरलचितः। ऊर्ध्वमधस्तिर्यक्च प्रेरितैः स्वरैर्यः प्रवर्तते, स प्रेरितः । य: स्वरस्थानेऽपि पूर्णश्रुतिः सन् तीक्ष्णवत् सूच्यमादिवत् प्रतिभासते, स तीक्ष्ण इति । इत्यसंकीर्णा दश स्थायाः । ___ अथ संकीर्णलक्षणान् कथयति-रागस्येति । रागस्य रअकत्वातिशयाधानं भजनमित्युच्यते; तेन संयुक्ता भजनसंबन्धिनः । ये स्थापयित्वा स्थापयित्वा निश्चलीकृत्य प्रतिक्षणं पुनः क्रियन्ते, ते स्थापनासंबन्धिनः।
Scanned by Gitarth Ganga Research Institute