________________
संगीतरत्नाकरः मत्तमातङ्गस्येव या गायकप्रसिद्धा गीते गतिः, तद्युक्ता गतिसंबन्धिनः । स्नेहवान् माधुर्येण मांसल: स्थूलोऽतिमधुरः । एवंविधो नादो बाहुल्येन येषु स्थायेषु, ते नादसंबन्धिनः । येषु दीर्घतरः प्रयोगो गमकसंदर्भ:, ते ध्वनिसंबन्धिनः । सुकुमारकान्तिसंयुक्ताः छविसंबन्धिनः । छवेर्लक्षणं पूर्वमुक्तम् । यत्र रञ्जकत्वाधिक्य, ते रक्तिसंबन्धिनः । द्रुतसंबन्धिनः स्थायाः सार्थकनामानः । यत्रं स्वराणां द्रुतत्वं वेगेनोच्चारणं, ते द्रुतसंबन्धिनः । ध्वनेर्भरणात् पूरणात् घनत्वेनोचारणात् भृतसंबन्धिनः । अंशसंबन्धिनः स्थायान् लक्षयितुमंशं लक्षयति-रागान्तरस्येति । अन्यस्मिन् रागेऽन्यस्य रागस्यावयवोंऽशः । नन्वंशस्यान्यरागकाकोः कथं भेदः ? ब्रूमः-अन्यस्य रागस्य छाया काकुः ; छायाया भिन्न एवावयवोंऽश इति । सोऽश: सप्तप्रकार:-कारणांशः, कार्याश:, सजातीयांशः, सदृशांशः, विसदृशांश:, मध्यस्थांशः, अंशांशश्चेति । एतेषां लक्षणमाह-यो राग इति । कार्यभूते रागे कारणभूतस्य रागस्य योऽश:, स कारणांशः; यथा रामकृतौ कोलाहलस्यांशः । कारणभूते रागे कार्यभूतस्य रागस्यांशः कार्याशः; यथा भैरवीजनके भैरवे भैरव्या अंशः । समानायां षाड्ज्यादिजातौ समुत्पन्नाः सजातीया इति भ्रान्ति निरसितुं सजातीयान् लक्षयति-समां जातिमिति । गौडत्ववराटीत्वादिकां समानां जातिमाश्रिता: सजातीयाः; तेष्वन्यस्मिन् अन्यस्य योऽशः, स सजातीयांश: । नट्टावराटयोरिव सदृशरागयोर्योऽशः, स सदृशांश: । अत्यन्तविसदृशयो रागयोर्योऽशोऽपरस्मिन् दृश्यते, स विसदृशांशः । वेलावलीगुर्जयोरिव सादृश्यवैसादृश्यविवर्जनेन योऽशः, स मध्यस्थांशः । यो लक्षितेष्वंशेष्वंशान्तरस्य संचारः प्रवेशः, सोंऽशांश: । एवंविधोंऽशो येषु दृश्यते, तेंऽशसंबन्धिनः स्थायाः । अवधानसंबन्धिनं स्थायं लक्षयति-मनसेति । तद्गतेन तत्प्रवणेनैव मनसा ग्राह्य उद्ग्राह्यो गेय इति यावत् । चेतसो वैयग्र्ये य: स्थायो गातुं न शक्यते, सोऽवधानजः । आयासेनेति । आयासाभावेऽपि यत्र स्थाने ध्वनिर्विपुलो भवति, तत् स्वस्थानमित्युच्यते । आयासेन तु यत्र तस्य प्रचुरध्वनेर्गति: व्याप्तिः, तत् अपस्थानमिति । तत्र जाता: स्थाया अपस्थानसंबन्धिनः ।
Scanned by Gitarth Ganga Research Institute