________________
१७८
संगीतरत्नाकरः अंशेऽशान्तरसंचारादंशांश इति कीर्तितः। येष्वंशो दृश्यते स्थायास्तंऽशस्य परिकीर्तिताः॥ मनसा तद्गतेनैव ये ग्राह्यास्तेऽवधानजाः । आयासेन विना यत्र स्थाने स्यात् प्रचुरो ध्वनिः॥ वस्थानं तदपस्थानं त्वायासेन तदुद्गतेः। अपस्थानस्य ते स्थाया येऽपस्थानसमुद्भवाः ॥१४२॥ निकृतेः करुणायाश्च स्थायास्त्वन्वर्थनामकाः। स्थाया नानाविधां भङ्गी भजन्तो विविधत्वजाः॥ गात्रस्य गात्रे नियताः कृत्वा तीव्रतरं ध्वनिम्। येषूपशान्तिः क्रियते भवन्त्युपशमस्य ते ॥१४४॥ काण्डारणा प्रसिद्धैव तस्याः स्थायास्तदुद्भवाः।
सरलः कोमलो रक्तः क्रमानीतोऽतिसूक्ष्मताम् ॥ छाया अत्यन्तसादृश्यात् रागान्तराश्रया सती या प्रतीयते, सान्यरागकाकुः । अंशस्तु प्रकृतरागे ह्यविद्यमान एव शोभातिशयाय याचितकमण्डनन्यायेन रागान्तरादुपादाय संयोगवृत्त्यात्र संबध्यत इति भेदो द्रष्टव्यः । काण्डारणा प्रसिद्धैवेति । काण्डेषु मन्द्रमध्यतारेप्वासमन्ताद्रणतीति व्युत्पत्त्या प्रसिद्धेत्यर्थः । सुगममन्यत् ॥ ११२-१५१॥
(सं०) तेषां लक्षणमाह-युक्तशब्देति । युक्तशब्देन उचितशब्देन प्रतिगृहीताः स्थायाः शब्दसंबन्धिनः । मुक्ताफलस्य यत् बाह्यमालोलनं लोके प्रसिद्धं तद्वत् ढालो येषु, ते ढालसंबन्धिनः । ढालस्य च लक्षणमुक्तं पार्श्वदेवेन
"वृत्तमौक्तिकवत् काचभूतले विलसद्धनौ ।
श्रुतिः प्रवर्तते क्षिप्रं यत्र ढालं तदुच्यते ॥" इति । अतिकोमलं सुकुमारं स्वराणां नमनम् अध उच्चारणं लवनीत्युच्यते ; तद्युक्ता: स्थाया लवनीसंबन्धिन इति । वहनी लक्षयति-यत्त्विति । आरोहणे
Scanned by Gitarth Ganga Research Institute