________________
तृतीयः प्रकीर्णकाध्यायः रक्तरुत्कर्षतो रक्तरुक्ताः स्थाया मनीषिभिः । द्रुतस्यान्वर्थनामानो भृतस्य भरणाद्धनेः ॥ १३२॥ रागान्तरस्यावयवो रागेंऽशः स च सप्तधा। कारणांशश्च कार्यांशः सजातीयस्य चांशकः॥१३३॥ सदृशांशो विसदृशो मध्यमस्यांशकोऽपरः। अंशांशश्चेति यो रागे कार्येऽशः कारणोद्भवः॥ कारणांशस्त्वसौ रामकृतौ कोलाहलांशवत् । कारणे कार्यरागांशः कार्यांशो भैरवे यथा ॥१३५॥ भैरव्यंशः समां जाति गौडत्वाद्यां समाश्रिताः। कर्णाटाद्याः सजातीयास्तेष्वेकांशोऽपरत्र यः॥ सजातीयांशकः स स्यादंशः सदृशरागयोः । सदृशांशो यथा नहावराट्योः शुद्धयोमिथः॥१३७॥ सादृश्यशून्ययोरंशोऽत्यन्तं विसदृशांशकः। वेलावल्याश्च गुर्जर्याः परस्परगतौ यथा ॥ १३८ ॥ मध्यस्थरागौ सादृश्यवैसादृश्यविवर्जितौ । मध्यस्थांशस्तयोरंशो नहादेशाख्ययोरिव ॥ १३९॥
द्विश्रुतिकस्य निषादस्य षड्जाद्यश्रुतिद्वयाश्रयणेन चतुःश्रुतित्वे सति श्रुत्यधिकत्वेन षड्जवत् प्रतीतिश्च यतो ध्वनिविकारात् भवति, सा स्वरकाकुरिति मन्तव्येत्यर्थः। एवं स्वरान्तरेष्वपि द्रष्टव्यम् । रागान्तरस्यावयवो रागेंऽश इति । रागे बहुलीकोलाहलादिकार्यकारणादिरागे रागान्तरस्य कोलाहलबहुल्यादिकारणकार्यादिभूतान्यरागस्यावयवः स्वरसमुदायरूप एकदेशो रक्त्यर्थमुपादीयमानोंऽश इति परिभाष्यते । न तु प्रसिद्धः स्वरविशेष उच्यते । नन्वन्यरागे काकोरंशस्य च को भेद इति चेत्; उच्यते--प्रकृतरागे समवायवृत्त्या वर्तमानैव
23
Scanned by Gitarth Ganga Research Institute