________________
१७४
संगीतरत्नाखरः स्थायभेदलक्षणानि
(a) तत्र प्रसिद्धस्थायाः मुंक्तशब्दप्रतिग्राह्याः स्थायाःशब्दस्य कीर्तिताः॥११२॥ ढालो मुक्ताफलस्येव चलनं लुठनात्मकम् ।
स येषु ते स्युर्दालस्य नमनं त्वतिकोमलम् ॥ ११३ ॥ स्थायानां लक्षणमुच्यते । किमर्थमिदमुक्तम् ? गायकानां स्थाया वागा इति प्रसिद्धेः । तत्र कथं वागानां लक्षणं नोक्तमिति शङ्कां निवारयितुं गमका एव वागा इत्युक्तम् । स्थायप्रसङ्गात् वागानां गमकानामपि केपांचिलक्षणं वच्मि कथयामि। स्थायान् विभजते-ते चेति । ते च स्थायाः शब्दस्य शब्दसंबन्धिनः, ढालो वक्ष्यमाणलक्षणः तत्संबन्धिनः, लवनीसंबन्धिनः, वहनिसंबन्धिनः, वाद्यशब्दसंबन्धिनः, यन्त्रसंबन्धिनः, छायासंबन्धिनः, स्वरलवितादयस्त्रयश्चेत्यसंकीर्णलक्षणा दश । गुणजनितभेदान् संकीर्णान् स्थायान् विभजते-भजनस्येति । भजनसंबन्धिनः, स्थापनासंबन्धिनः, गतिसंबन्धिनः, नादसंबन्धिनः, ध्वनिसंबन्धिनः, छविसंबन्धिनः, रक्तिसंबन्धिनः, द्रुतसंबन्धिनः, भृतसंबन्धिनः, अंशसंबन्धिन:, अवधानसंबन्धिनः, अपस्थानसंबन्धिनः, निकृतिसंबन्धिनः, करुणासंबन्धिनः, विविधत्वं भङ्गी तत्संबन्धिनः, गात्रसंबन्धिनः, उपशमसंबन्धिनः, काण्डारणासंबन्धिन:, निर्जवनसंबन्धिनः, गाढललितगाढादयश्चापेक्षितान्ता द्वादश-तत्संबन्धिनः, घोषसंबन्धिनः, स्वरसंबन्धिनश्चेति त्रयस्त्रिंशद्गुणजनितभेदाः स्थायाः । अन्यान् विंशतिमसंकीर्णान् विभजतेवहाक्षराडम्बरयोरिति । षष्ठयन्तैः सह तत्संबन्धिन इति प्रथमान्ताः स्थाया एव । अन्यान् संकीर्णान् त्रयस्त्रिंशतं स्थायान् विभजते-प्रकृतिस्थस्येत्यादिना । एवं सर्वे स्थाया मिलिता: षण्णवतिः ॥ ९७-११२ ॥
(क०) अथैतेषां क्रमेण लक्षणान्याह-मुक्तशब्दप्रतिग्राह्या इत्यादिना । मुक्तश्चासौ शब्दश्चेति मुक्तशब्दः । प्रतिग्रहीतुं योम्याः प्रतिग्राह्याः । मुक्तशब्देन प्रतिग्राह्याः । अयमर्थः--पूर्वस्थायो यस्मिन् ध्वनौ मुच्यते, उत्तरस्थायो चक्रवालरीत्या तत्रैव प्रतिगृह्यते चेत्, तदा शब्दस्थाया इति
1युक्तशब्देति सुधाकरसंमतः पाठः।
Scanned by Gitarth Ganga Research Institute