________________
१७५
तृतीय: प्रकीर्णकाध्यायः लवनी ताजः स्थाया लवन्याः परिकीर्तिताः। यत्तु कम्पनमारोहिण्यवरोहिणि वा भवेत् ।। ११४ ॥ वहनी साथ संचारिण्यपि वा स्थिरकम्पनम् । सा गीतालप्तिसंबन्धभेदेन द्विविधा मता ।। ११५ ॥ पुनर्द्विधा स्थिरा वेगाड्या पुनस्त्रिविधोदिता। हृद्या कण्ट्या शिरस्या च देहस्था हृदयोद्भवा ॥११६।। वहनी स्यात् पुनदे॒धा खुत्तोत्फुल्लेति भेदतः।। यस्यामन्तर्विशन्तीव स्वराः खुत्तेति सा मता ॥११७॥ सोत्फुल्लेत्युदिता यस्यां निर्यान्तीवोपरि स्वराः ।। वलिर्या गमकेषूक्ता साप्येवंविधभेदभाक् ॥ ११८ ॥ वहनी येषु ते स्थाया वहन्याः परिभाषिताः। रागमना वाद्यशब्दा येषु ते वाद्यशब्दजाः ॥ ११९ ॥ ये यन्त्रेष्वेव दृश्यन्ते बाहुल्यात्ते तु यन्त्रजाः । छाया काकुः षट्प्रकारा स्वररागान्यरागजा ॥ १२० ।। स्याद्देशक्षेत्रयन्त्राणां तल्लक्षणमथोच्यते । श्रुतिन्यूनाधिकत्वेन या स्वरान्तरसंश्रया ।। १२१ ।।
व्यपदिश्यन्त इत्यर्थः । वहन्यवान्तरभेदप्रदर्शनार्थ सा गीतालप्तिसंबन्धभेदेनेत्युक्तम् । तत्र गीतालप्त्योरुभयोरपि रञ्जकस्वरसंदर्भत्वाविशेषात् कथं भेदकत्वमिति
चेत् , उच्यते--गीतशब्दो यद्यपि निबद्धानिबद्धसामान्यवचनः, तथाप्यनिबद्धविशेषवचनालप्तिशब्दसमभिव्याहारात् गोबलीवर्दन्यायेनात्र निबद्धवचनत्वेन व्यवस्थापित इति । छाया काकुरिति । छायेत्यस्य विवरणं काकुरिति । काकुव॑नेर्विकारः । श्रुतिन्यूनाधिकत्वेनेति । श्रुतीनां छन्दोवत्यादीनां पूर्वोक्तानां न्यूनत्वेन तत्तत्स्वरोक्तसंख्यातोऽल्पत्वेनाधिकत्वेन तादृशसंख्यातो
Scanned by Gitarth Ganga Research Institute