________________
तृतीयः प्रकीर्णकाध्यायः
१७३ प्रकृतिस्थस्य शब्दस्य कलाक्रमणयोरपि ॥ १०७ ।। घटनायाः सुखस्यापि चालेर्जीवस्वरस्य च । वेदध्वनेर्घनत्वस्य शिथिलोऽवघटः प्लुतः ॥ १०८ ॥ रागेष्टोऽपखराभासो बद्धः कलरवस्य च । छान्दसः सुकराभासः संहितो लघुरन्तरः॥ १०९॥ वक्रो दीप्तप्रसन्नश्च स्यात् प्रसन्नमृदुर्गुरुः। ह्रस्वः शिथिलगाढश्च दीर्घोऽसाधारणस्ततः ॥ ११०॥ साधारणो निराधारो दुष्कराभासनामकः। मिश्रश्चैतेऽपि संकीर्णा गुणैर्भिन्नाश्च पूर्ववत् ॥ १११ ॥ इति षण्णवतिः स्थायाः शाङ्देवेन कीर्तिताः।
इति स्थायभेदाः ।। प्राधान्याद्धर्मभेदेनैव भेदः; नात्यन्तं धर्मिभेद इति भावः । तेनैते संकीर्णा इति भावः । असंकीर्णलक्षणा इति । वहाक्षरेत्यादिनोद्दिष्टा असंकीर्णलक्षणाः। असंकीर्णं पृथग्भूतं लक्षणं येषां ते तथोक्ताः । प्रथमोद्दिष्टानामेतेषां चासंकीर्णलक्षणत्वाविशेषेऽपि तेषां प्रसिद्धत्वमेतेषामप्रसिद्धत्वमिति भेदो द्रष्टव्यः । अत एव पृथगद्देशोऽत्र युक्तः । एतेऽपि संकीर्णा इति । एते प्रकृतिस्थस्येत्यादिनोद्दिष्टाः स्थाया अपि संकीर्णाः । अत्रापिशब्दः समुच्चये । तेनायमर्थःभजनस्थायादयो यद्वत् संकीर्णास्तद्वदेते च संकीर्णा नात्यन्तं पृथग्भूतस्वरूपाः । किंतु पूर्ववत् भजनस्थायादय इव गुणैः प्रकृतिस्थशब्दवत्तादिभिभिन्नाः पृथग्भूताः। उभयेषामपि गुणभिन्नत्वाविशेषेऽपि तेषां प्रसिद्धित एतेषामप्रसिद्धितो भेदो द्रष्टव्यः । अतस्तेभ्यः पृथगुद्देशोऽप्येतेषामुपपन्न एव ॥ ९७-११२ ।। ___(सं०) स्थायं निरूपयितुमाह-रागस्येति । रागस्यावयवो भागः स्थाय इत्युच्यते । गमकश्च वाग इत्युच्यते । तत्र गमकानां लक्षणमुक्तम् | अधुना
Scanned by Gitarth Ganga Research Institute