________________
तृतीयः प्रकीर्णकाध्यायः
शारीरलक्षणम्
१६७
रागाभिव्यक्तिशक्तत्वमनभ्यासेऽपि यद्धुनेः । तच्छारीरमिति प्रोक्तं शरीरेण सहोद्भवात् ॥ ८२ ॥ इति शारीरलक्षणम् ।
शारीरगुणाः तारानुध्वनिमाधुर्यरक्तिगाम्भीर्यमार्दवैः । घनतास्निग्धताकान्तिप्राचुर्यादिगुणैर्युतम् ॥ ८३ ॥ तत् सुशारीरमित्युक्तं लक्ष्यलक्षणकोविदैः । इति शारीरगुणाः ।
शारीरदोपाः
अनुखानविहीनत्वं रूक्षत्वं त्यक्तरक्तिता ॥ ८४ ॥ निःसारता विस्वरता काकित्वं स्थानविच्युतिः । काइ कार्कश्यमित्याद्यैः कुशारीरं तु दूषणैः ॥ ८५ ॥ इति शारीरदोपाः ।
( क ० ) गीतहेतुतया गायनानन्तरोद्दिष्टं शारीरं लक्षयति-- रागाभिव्यक्तीति । अनभ्यासेऽपि ध्वनेर्यद्रागाभिव्यक्तिशक्तत्वं तच्छारीरमित्यनेन शब्दशारीरयोधर्मधर्मिभावेन भेदो दर्शितः । रागाभिव्यक्तिशक्तत्वमिति । रागस्य ग्रहांशादिस्वरसंनिवेशविशेषवतः श्रीरागादेः अभिव्यक्ति: अवैस्वर्येणासांकर्येण च प्रकाशनम् ; तत्र शक्तत्वं शक्तिमत्त्वम् । शक्तिर्नामात्र रागाभिव्यक्तिबीजरूपः संस्कारविशेषः, यां विना राग एव न प्रसरेत्; प्रसृतं वा हसनीयं भवेत् । अत एवानभ्यासेऽपीयुक्तम् । अयमभिप्रायः - शक्तौ सत्यामभ्यासे कृते रागाभिव्यक्तिः सुतरां भवति । असत्यां तु तस्यामभ्यासेनैव सा न भवतीति । एतदेवाभिसंधाय शरीरेण सहोद्भवात् इति शारीरशब्दस्य व्युत्पत्तिर्दर्शिता ।
1
Scanned by Gitarth Ganga Research Institute