________________
संगीतरत्नाकरः
अन्वयादिकमन्यत् समानमेव । अत्र कण्ठशब्दो मन्द्रतारस्थानयोर्हन्मूनोरप्युपलक्षणम् , तयोरपि तादृशस्य ध्वनेः संभवात् । आकण्ठकुण्ठने स स्यादिति पाठे तु अध्याहाराद्वाक्यभेदो न कर्तव्यः स्यात् । अर्थस्तु स एव । चेहालशब्दो रूढः । अन्येऽन्वर्थाः ॥ ६८-७७ ॥
(सं०) अथ शब्दगुणानाह-मृष्ट इति । एतैर्गुणः पञ्चदशप्रकारा: शब्दाः । तेषां गुणानां लक्षणमाह-श्रोत्रेति । यस्तु श्रोत्रयोः सुखं जनयति , स मृष्टः । स्थानत्रयेऽप्यनश्वरोऽविनाश्यविकृतो मधुर इत्युच्यते । शस्तः प्रशस्तो रमणीयः । प्रौढः प्रौढिमान् प्रगल्भ: । अतिस्थूलतातिकृशताभ्यां हीनः स्निग्धः स्नेहवान् । एवंविधश्चेहालको ज्ञातव्यः । घनो नि:सारताहीनः । स चेहालक: पुंसां कण्ठकुण्ठनपर्यन्तमेव भवति । यदा तु पुंसां तारुण्योदयसमये केनाप्यस्थिविशेषेण कण्ठः कुण्ठितो भवति तदा चेहालको ध्वनि!त्पद्यते । स्त्रीणां तु सर्वदासौ भवति । स्थानत्रयेऽपि छविरक्त्यादिभिरुपलक्षित एकरूपोऽविकृतः त्रिस्थान इत्युच्यते । यस्तु मनसः सुखदायक: स सुखावहः । स्थूलतायुक्तः प्रचुरः। यत्र तु सौकुमार्य स कोमलः; कोकिलाध्वनिसदृशः । प्रबलत्वेन प्रसरन्नेव यः श्रूयते स गाढः। यस्तु दूराच्छ्य ते स श्रावकः । यः श्रोतुश्चित्ते करुणामुत्पादयति स करुणः । यस्तु दूरश्रवणयोग्योऽन्तःसारश्च स धन इत्युच्यते । यस्तु दूराच्छ्यते रूक्षताहीनश्च स स्निग्ध इत्युच्यते । यस्तु तैलधारावत् छिद्रहीनः स लक्ष्णः । यस्त्वनुरागमुत्पादयति स रक्तिमान् । यस्तु सहृदयैरुज्ज्वल इति प्रतीयते स छविमान् । तथा च लोके व्यवहरन्ति " यतश्च शब्दे ज्योतिः प्रतीयते" इति ।। ६८-७७ ॥
__ अथ शब्ददोषानाह-रूक्षेति । अष्टौ दुष्टस्य ध्वनेर्भेदा भवन्ति । तेषां लक्षणमाह-रूक्षेति । स्नेहाभावात् रूक्षः । यस्तु स्फुटित इव भग्न इव प्रतिभाति, स स्फुटित इत्युच्यते । यस्त्वेरण्डकाण्डवदन्तःसारहीन: स निःसारः । यस्तु काकशब्दवन्निष्टर: स काकोलीत्युच्यते । यस्तु स्थानत्रयं व्याप्नोति, परं तु माधुर्यादिगुणहीनः, स केटिरित्युच्यते । यस्य महता क्लेशेन तारमन्द्रव्याप्तिः, स केंणिः । सूक्ष्मः कृशः गर्दभकरभध्वनिवन्नीरसो भग्न इत्युच्यते ॥७८-८१ ॥
Scanned by Gitarth Ganga Research Institute