________________
१६८
संगीतरत्नाकरः विद्यादानेन तपसा भक्त्या वा पार्वतीपतेः।
प्रभूतभाग्यविभवैः सुशारीरमवाप्यते ॥ ८६ ॥ यथा ध्वनिः शरीरेण सहोद्भूतो भवति, तथा तस्य रागाभिव्यक्तिशक्तत्वमपि शरीरेण सहोद्भूतं भवति । न ह्यभ्यासेनागन्तुकमित्यर्थः। तस्य गुणदोषान् क्रमेण दर्शयति–तारानुध्वनीत्यादिना । सुशारीरप्राप्तौ हेतून् दर्शयति-विद्यादानेनेत्यादिना ॥ ८२-८६ ॥
(सं०) अथ शारीरं लक्षयति-रागाभिव्यक्तीति । अभ्यासाभावेऽपि ध्वनेः रागानभिव्यञ्जयितुं यत् सामर्थ्यं तच्छारीरमित्युच्यते । एतस्य व्युत्पत्ति दर्शयति-शरीरेणेति । शरीरेण सहोत्पन्नत्वाच्छारीरमित्युच्यते । स्वभावसिद्धमेतत् ; प्रयत्नेन न साध्यमित्यर्थः । अथ शारीरगुणान् कथयति-तारेति । तार इति व्याप्तिः । अनुध्वनिरनुरणनयुक्तत्वम् । माधुर्य रमणीयता । रक्तिः रजकत्वम् | गाम्भीर्यम् अगाधत्वम् | मार्दवं सौकुमार्यम् । घनता ससारत्वम् । कान्तिः पूर्वोक्ता छवि: । आदिशब्देन शब्दोक्ता अन्ये गुणाः । तैर्युक्तं शारीरं सुशारीरमित्युच्यते । शारीरदोषानाह–अनुस्वानविहीनत्वमिति । पूर्वोक्तगुणविपर्यासरूपैरेतैर्दूषणैर्युक्तं दुष्टं शारीरम् । अदुष्टं शारीरं तु महता भाग्येनानेकोपायैः प्राप्यत इत्याह-विद्यादानेनेति । संगीतसमयसारकारेण शारीरस्य चातुर्विध्यमुक्तम्
" अन्तरेण यदभ्यासं रागव्यक्तिनिबन्धनम् | शरीरेण सहोत्पन्नं शारीरं परिकीर्तितम् ॥ चतुर्विधं भवेत्तच कडालं मधुरं तथा । पेशलं बहुभङ्गीति तेषां लक्षणमुच्यते ॥ स्थानत्रयेऽपि कठिनं कडालं परिकीर्तितम् । मन्द्रे मध्ये च माधुर्ये शारीरं मधुरं मतम् ।। शारीरं पेशलं ज्ञेयं तारे रागप्रकाशकम् । तच्छारीरगुणा मिश्रा यत्र तद्बहुभङ्गिकम् ॥
Scanned by Gitarth Ganga Research Institute