________________
तृतीयः प्रकीर्णकाध्यायः एते द्वंद्वजभेदाः स्युरथैते सांनिपातिकाः ॥ ६ ॥ स्निग्धत्रिस्थाननिःसारोऽन्यो मृदुर्मधुरो धनः । गम्भीरोचतरो रूक्षः परस्तु लिग्धकोमलः ॥ ६१॥ घनलीनः पीवरोचतरोऽन्यः स्निग्धकोमलः। त्रिस्थानलीननिःसारपीवरोच्चतरोऽपरः ।। ६२ ॥ कीर्तितो मधुरो लीनत्रिस्थानो रूक्षपीवरः । निःसारोच्चतरोऽन्यस्तु मधुरलिग्धकोमलः ॥ ६३ ॥ त्रिस्थानघनगम्भीरलीन उचतरः परः। मधुरो मृदुगम्भीरलीनत्रिस्थानरूक्षकः ॥१४॥ निःसारोचतरोऽन्यस्तु कोमलो मधुरो घनः। लीनत्रिस्थानरूक्षोचतरपीवरतायुतः ॥६५॥ अष्टाविति विमिश्रस्य भेदाः सर्वे तु मिश्रजाः। मिलिता मुग्धबोधाय त्रिंशनिःशङ्ककीर्तिताः ॥१६॥ अन्येषां सूक्ष्मभेदानां नान्तोऽस्ति गुणसंकरात् । ते ग्रन्थविस्तरत्रासादस्माभिन समीरिताः ।। ६७ ।।
इति शब्दभेदाः। अथैत इति । कश्चित् स्नेहत्रिस्थानव्याप्तिनि:सारतायुक्तः । कश्चित् मार्दवमाधुर्यघनत्वगाम्भीर्योच्चतरत्वरूक्षतायुक्तः । कश्चित् स्नेहकोमलताघनत्वलीनत्वस्थौल्योचतरत्वयुक्तः। कश्चित् स्नेहकोमलतात्रिस्थानव्याप्तिलीनत्वनिःसारतास्थौल्योच्चतरत्वयुक्त: । कश्चित् माधुर्यलीनतात्रिस्थानव्याप्तिरूक्षतास्थौल्यनि:सारतोचतरत्वयुक्तः। अन्यस्तु माधुर्यस्नेहकोमलतात्रिस्थानव्याप्तिघनत्वगाम्भीर्यलीनत्वोच्चतरत्वयुक्तः । परस्तु माधुर्यमार्दवगाम्भीर्यलीनतात्रिस्थानव्याप्तिरूक्षत्वनिःसारतोच्चतरत्वयुक्तः । अन्यस्तु कोमलतामाधुर्यघनत्वलीनतात्रिस्थानव्याप्तिरूक्षत्वोच्चतरत्वस्थौल्ययुक्तः । एवं त्रयाणां लक्षणसंकरे अष्टौ भेदाः । सर्वे मिलिता मिश्रजास्त्रिंशत्संख्याकाः शादेवेन कथिताः । अन्ये तु सूक्ष्मभेदा ग्रन्थविस्तरभयानोक्ताः ॥३९-६७॥
Scanned by Gitarth Ganga Research Institute