________________
१६२
संगीतरत्नाकरः अपरः स्निग्धमधुरकोमलः सान्द्रलीनकः। त्रिस्थानशोभी गम्भीर इति भेदा दशोदिताः॥५४॥ खाहुलोन्मिश्रनाराटे ततः ग्वाहुलबोम्बयोः । लिग्धकोमलनिःसार एकोऽन्यो मधुरो मृदुः ॥५५॥ रूक्षोऽन्यस्तु मृदुलिग्धनिःसारोचतरः परः। कोमला लिग्धनिःसारः स्थूलोऽन्यःलिग्धकोमलः॥ निःसारोचतरस्थूलः परो मधुरकोमलः।। रूक्षनिःसारपीनश्च भेदाः षडिति कीर्तिताः ॥७॥ नाराटे बोम्बभेदाः स्युर्घनत्रिस्थानरूक्षकः। एकोऽन्यो घनगम्भीररूक्षोऽन्यो लीनपीवरः॥५८॥ निःसाररूक्षोऽन्यो लीनघनोचतरपीवरः। त्रिस्थानघनगम्भीरलीनरूक्षोऽपरः परः ॥ ५९॥
त्रिस्थानलीननिःसाररूक्षः स्थूलः षडित्यमी । स्नेहमाधुर्यकोमलतावनत्वलीनत्वत्रिस्थानव्याप्तिगाम्भीर्ययुक्त इति दश भेदाः खाहुलनाराटयोः संमिश्रणे । खाहुलबोम्बकयोः संमिश्रणे भेदानाह-तत इति । स्नेहकोमलतानि:सारतायुक्त एकः । कश्चित् माधुर्यमार्दवरूक्षतायुक्तः । अन्यस्तु मार्दवस्नेहनि:सारतोच्चतरत्वयुक्तः । कश्चित् कोमलतास्नेहनिःसारतास्थौल्ययुक्तः । अन्यस्तु स्नेहकोमलतानि:सारतोचतरत्वस्थौल्ययुक्तः । कश्चित् माधुर्यकोमलतारूक्षत्वनिःसारतास्थौल्ययुक्तः । एवं खाहुलबोम्बकयोः संमिश्रणे षड् भेदाः । नाराटबोम्बकयोः संमिश्रणे भेदानाह-नाराटे चोम्बभेदा इति । घनत्वत्रिस्थानव्याप्तिरूक्षतायुक्त एकः । कश्चित् घनत्वगाम्भीर्यरूक्षतायुक्तः। कश्चित् लीनतास्थौल्यनिः सारतारूक्षत्वयुक्तः । कश्चित् लीनताघनत्वोच्चतरत्वस्थूलतायुक्तः। कश्चित् त्रिस्थानव्याप्तिघनत्वगाम्भीर्यलीनतारूक्षत्वयुक्तः। कश्चित् त्रिस्थानव्याप्तिलीनतानिःसारतारूक्षत्वस्थूलतायुक्तः । एवं नाराटबोम्बकयोः संमिश्रणे षड् भेदाः । एवं द्वियोगजा भेदा द्वाविंशतिरुक्ताः । अथ सांनिपातिकांस्त्रियोगजान् भेदानाह
Scanned by Gitarth Ganga Research Institute