________________
१६४
संगीतरत्नाकरः
शब्दगुणाः मृष्टो मधुरचेहालत्रिस्थानकसुस्वावहाः । प्रचुरः कोमलो गाढः श्रावकः करुणो धनः॥ ६८॥ स्निग्धः श्लक्ष्णो रक्तियुक्तश्छविमानिति सूरिभिः। गुणैरेभिः पश्चदशभेदः शब्दो निगद्यते ॥ ६९ ॥ श्रोत्रनिर्वापको मृष्टस्त्रिषु 'स्थानेष्वविस्तरः। मधुरः कीर्तितस्तारः प्रौढो मधुररञ्जकः ॥ ७० ॥ नातिस्थूलो नातिकृशः स्निग्धश्चेहालको घनः। आकण्ठकुण्ठनं स स्यात् पुंसांस्त्रीणांतु सर्वदा॥७॥ त्रिषु स्थानेष्वेकरूपश्छविरक्त्यादिभिर्गुणैः ।
(क०) सौकुमार्यस्थौल्यादिगुणसांकर्येणानन्त्येऽपि शब्दानां तत्र गीतोपयोगिगुणभेदभिन्नान् शब्दानुद्दिश्य लक्षयति-मृष्ट इत्यादिना । ननु मृष्टादयो गुणिन एवोद्दिष्टाः । एभिर्गुणैरिति कथं तत्परामर्श उपपद्यत इति चेत् ; उच्यते-"नागृहीतविशेषणा बुद्धिर्विशेष्यमुपसंक्रामति" इति न्यायेन मृष्टादिषु वर्तमानानां श्रोत्रनिर्वापकत्वादिगुणानां पुरःस्फूर्तिकत्वेन बुद्धिस्थतया 'एभिर्गुणैः। इति निर्देशो निर्दोष एव । इहान्वयप्रकारस्तु छविमानित्येतदन्तः शब्द एभिर्गुणैः पञ्चदशभेदो निगद्यत इति । आकण्ठकुण्ठनं स स्यात् पुंसां स्त्रीणां तु सर्वदा इत्यत्र यदातदाशब्दावध्याहायौँ । यदा पुंसामाकण्ठकुण्ठनं भवति, तदा स स्यादित्यन्वयः । स इति चेहालः परामृश्यते । पुंसामिति कर्तरि षष्ठी। आकण्ठकुण्ठनमिति । कण्ठस्य ध्वनेरासमन्तात् स्थानत्रयेण कुण्ठनमनतिबहिर्मुखतया ग्रहणम् । तच्च मारुतस्य तादृशनिरोधाद्भवति । तदा हि ध्वनि तिस्थूलकृशः सन् स्निग्धो भवति । स्त्रीणां तु सर्वदेति । स्त्रीणां त्वाकण्ठकुण्ठनमन्तरेणापि । 1 स्थानेष्वनश्वरः इति सुधाकरपाठः
शस्तः इति सुधाकरपाठः
Scanned by Gitarth Ganga Research Institute