SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकीर्णकाध्यायः गेयं नासिकया गायन् गीयते सानुनासिकः ॥३८॥ इति गायनदोषाः। __ शब्दभेदाः चतुर्भेदो भवेच्छब्दः खाहुलो नारटाभिधः। बोम्बको मिश्रकश्चेति तल्लक्षणमथोच्यते ॥ ३९ ॥ कफजः खाहुलः लिग्धमधुरः सौकुमार्ययुक् । आडिल्ल एष एव स्यात् प्रौढश्चेन्मन्द्रमध्ययोः॥४०॥ त्रिस्थानधनगम्भीरलीनः पित्तोद्भवो ध्वनिः । नाराटो बोम्बकस्तु स्यादन्तनि:सारतायुतः॥४१॥ परुषोचैस्तरः स्थूलो वातजः शाङ्गिणोदितः । (क०) हृद्यशब्द इति गायनविशेषणत्वेन प्रसक्तं शब्दं सप्रभेदं लक्षयति-चतुर्भेद इत्यादिना, ते ग्रन्थविस्तरत्रासादस्माभिर्न समीरिता इत्यन्तेन । तत्र खाहुलादयः शब्दा रूढाः । मिश्रकशब्दोऽन्वर्थः । निगदव्याख्यातमन्यत् ।। ३९-६७ ॥ (सं०) अथ शब्दभेदान् कथयति-चतुर्भेद इति । खाहुलं लक्षयतिकफज इति । श्लेष्मणो जातः । स्नेहमाधुर्यसौकुमार्याणि शब्दे औपचारिकाणि ज्ञातव्यानि । एष एव खाहुल: शब्दः मन्द्रमध्यस्थानयोः प्रौढिं व्याप्ति प्राप्नोति चेत्तदा आडिल्ल इत्युच्यते । नाराटं लक्षयति-त्रिस्थानेति । मन्द्रमध्यतारस्थानत्रयेऽपि धनोऽन्त:सारः, गम्भीरो निर्बादी, लीनोऽस्फुटितः, पित्तोत्पन्नध्वनि राटः । बोम्बकं लक्षयति--बोम्बकस्त्विति । एरण्डकाण्डवदन्तनि:सार:, परुपः स्निग्धताहीनः, उच्चैस्तरः तारो गर्दभध्वनिवदुच्चस्थानस्थः, स्थूलो महान् , वाताज्जातो बोम्बकः । एतेषां त्रयाणां शब्दानां लक्षणसंमिश्रणात् मिश्रः । पार्श्वदेवेनाप्युक्तमेतेषां लक्षणम् - "बाहुल्यान्मन्द्रसंस्पर्शान्माधुर्यगुणसंयुतः । खाहुलः स परिज्ञेयो गीतध्वनिविशारदैः ॥ Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy