________________
संगीतरत्नाकरः तुम्बकी तुम्बकाकारोत्फुल्लगल्लस्तु गायनः। वक्री चक्रीकृतगलो गायन धीरैरुदीरितः ॥ ३३ ॥ प्रसारी गीयते तज्ज्ञैर्गावगीतप्रसारणात् । निमीलको मतो गायन् निमीलितविलोचनः॥३४॥ विरसो नीरसो वयंवरगानादपस्वरः । गद्गदध्वनिरव्यक्तवर्णस्त्वव्यक्त उच्यते ॥ ३५ ॥ स्थानभ्रष्टः स यः प्राप्तुमशक्तः स्थानकत्रयम् । अव्यवस्थित इत्युक्तः स्थानकैरव्यवस्थितैः ।। ३६ ॥ शुद्धच्छायालगौ रागौ मिश्रयन् मिश्रकः स्मृतः । इतरेषां च रागाणां मिश्रको भूरिमिश्रणात् ॥३७॥ स्थायादिष्ववधानेन निर्मुक्तोऽनवधानकः।
"गीतादपि यदालप्तिं कुर्यात् सौख्यविधायिनीम् |
आलप्तिगायन: सोऽयं निर्दिष्टो गीतवेदिभिः ॥ आलप्तेरपि यद्गीतं भवेदतिमनोहरम् | उक्तो गायकभेदज्ञैः सोऽयं रूपकगायन: ॥ शुद्धे छायालगे चैव गीतमालप्तिसंयुतम् | यो गायति स विज्ञेयश्चौपटो गीतवेदिभिः ॥ ध्वनिशारीरयोर्यत्र नानादेशेषु रीतयः । विलगन्ति स विज्ञेयो वितालो गीतवेदिभिः ॥ नानाविधं विभक्तं च ध्वनौ यस्य भवेद्गलम् । निबन्धः स तु विज्ञेयो गीततत्त्वविचक्षणैः ॥ रागे रागान्तरच्छायां मिश्रयन् दोषवर्जितः ।
प्रवीणत्वेन यो गायेत् सोऽयं मिश्र उदाहृतः ।।" इति || २५-३८॥
Scanned by Gitarth Ganga Research Institute