________________
तृतीयः प्रकीर्णकाध्यायः
१५७
झोम्बस्तुम्बकी वक्री प्रसारी विनिमीलकः । विरसापस्वराव्यक्तस्थानभ्रष्टा व्यवस्थिताः ॥ २६ ॥ मिश्रकोsनवधानश्च तथान्यः सानुनासिकः । पञ्चविंशतिरित्येते गायना निन्दिता मताः ॥ २७ ॥ संदश्य दशनान् गायन् संदष्टः परिकीर्तितः । उद्घष्टो विसरोद्घोषः सूत्कारी सूत्कृतैर्मुहुः ||२८|| भीतो भयान्वितो गाता त्वरया शङ्कितो मतः । कम्पितः कम्पनाज्ज्ञेयः स्वभावाद्गात्रशब्दयोः ॥ कराली गदितः सद्भिः करालोद्घाटिताननः । विकलः स तु यो गायेत् स्वरान् न्यूनाधिकश्रुतीन् ॥ काकक्रूररवः काकी वितालस्तालविच्युतः । दधानः कंधरामूर्ध्वा करभोऽभिहितो बुधैः ॥ ३१ ॥ छागवद्वहनीं कुर्वन्नुद्भटोऽधमगायनः । सिराल भालवदनग्रीवो' गाता तु झोम्बकः ॥ ३२ ॥
(सं०) निन्दितान् गायकान् कथयति - संदष्टेति । एतेषां लक्षणं कथयति - संदश्येति । सूत्कृतैरुपलक्षितं यो गायति सः सूत्कारी । करालं भयानकमुद्धा - टितं विवृतमाननं येन | काकवत् क्रूरो रवो यस्य सः काकक्रूररवः । छागो मेषः, तद्वक्ष्यमाणलक्षणां वहनीं कुर्वन्नुद्भटः । सिरालं भालं वदनं ग्रीवा च यस्मिन्निति क्रियाविशेषणम् । तुम्बकम् अलाबु ; तद्वत्फुल्लुगलुस्तुम्बकी । निषिद्धस्वरगानात् अपस्वरः | स्थानकत्रयं मन्द्रमध्यमताराख्यम् । अव्यवस्थितैः व्यस्तैः स्थानैरुपलक्षितं गायन्नव्यवस्थितः । वक्ष्यमाणलक्षणेषु स्थायेषु, आदिशब्देन गमकेषु चावधाननिर्मुक्तः स्थानविपर्यासकृत् अनवधानः । अन्येऽपि गायकविशेषाः संगीतसमयसारकारेणोक्ताः
1 ग्रीवम् इति सुधाकरपाठः ।
1
Scanned by Gitarth Ganga Research Institute