________________
१६०
संगीतरत्नाकरः एतत्संमिश्रणादुक्तो मिश्रकः सांनिपातिकः ॥४२॥ ननु रूक्षगुणो बोम्बः खाहुलः लिग्धतायुतः। कथं तयोमिश्रणं स्याद्विरुद्धगुणयोगिनोः ॥ ४३ ॥ अत्रोच्यते परित्यागात् पारुष्यस्य विरोधिनः। अविरुद्धस्य माधुर्यस्थौल्यादेमिश्रणं मतम् ॥ ४४॥ एतेन घननिःसारगुणनाराटबोम्बयोः। विरुद्धगुणताक्षेपसमाधाने निवेदिते ॥ ४५ ॥ मिश्रस्य भेदाश्चत्वारो युक्तौ नाराटखाहलो। नाराटबोम्बको बोम्बखाहुलौ मिश्रितास्त्रयः॥४६॥ निःसारतारूक्षताभ्यां हीनस्त्रितयमिश्रणात् । एरण्डकाण्डवद्यत्र खणिकांशविवर्जितः । निःसारो बोम्बक: स्थूलो बाहुल्येन तु मध्यभाक् ॥ बाहुल्यात्तारसंस्पर्शी माधुर्यगुणवर्जितः ।। नाराटोऽयं परिज्ञेयो ध्वनिभेदविशारदैः ।।
एते ध्वनिगुणा मिश्रा यत्र सोऽयं तु मिश्रकः ।" इति । त्रयाणां लक्षणसंमिश्रणान्मिश्र इत्युक्तम् । तदाक्षिपति-नन्विति । बोम्बो रूक्षगुणः । खाहुल: स्निग्धगुणः । तौ हि परस्परविरुद्धौ । तयोमिश्रितत्त्वं कथं घटते? परिहरति-अत्रोच्यत इति । यद्यपि विरुद्धगुणानां मिश्रितत्वं न संभवति, तथाप्यविरुद्धगुणसमावेशान्मिश्रितत्वं संभवति । न हि माधुर्यादिगुणानां स्थौल्यादिगुणैः सह विरोधो विद्यत इति । एतेन वचनसंदर्भण घननि:सारयो राटबोम्बयोः शब्दयोर्विरुद्धगुणतया आक्षेपः तत्समाधानं चोक्तम् । मिश्रस्य भेदान् कथयति-मिश्रस्येति । नाराटखाहुलयोर्योग एकः । नाराटबोम्बयोर्योग एकः । बोम्बखाहुलयोर्योग एकः । एषां त्रयाणां संमिश्रणे चैकः । तत्र विरुद्धगुणपरित्यागमाह-निःसारतेति। नि:सारता घनत्वविरोधिनी । रूक्षता स्निग्धत्वविरोधिनी । अतस्तयोविरुद्धगुणाभ्यां मिश्रणं नास्ति । तथाविधो मिश्रको
Scanned by Gitarth Ganga Research Institute