________________
तृतीयः प्रकीर्णकाध्यायः
१५५ एक एव तु यो गायेदसावेकलगायनः। सद्वितीयो यमलकः सबृन्दो वृन्दगायनः ।। २३ ॥ रूपयौवनशालिन्यो गायन्यो गातृवन्मताः। माधुर्यधुर्यध्वनयश्चतुराश्चतुरप्रियाः ॥ २४ ॥
इति गायनलक्षणम् । नित्यर्थः । रहःकृतगीतस्य श्रोतृजनमोहनत्वं रह इत्युच्यते ; तत्करोतीति तथोक्तः । सुगममन्यत् ॥ १३-२४ ॥
___ (सं०) गान्धर्व लक्षयति-मार्गमिति । देशीमार्गावुक्तलक्षणौ । तौ यो जानाति स गान्धर्वः । यः केवलं मार्ग जानाति स स्वरादिः । गायनं लक्षयतिहृद्यशब्द इति। हृद्यो रमणीयः शब्दो यस्य। गुणयुक्तशारीरः । गीतस्योद्ग्रहणस्थानं विमुक्तिस्थानं च यः सम्यक् जानाति। रागा मार्गरागादयः; रागाङ्गादीनि देशीरागादयः; तेषु कोविदः । प्रबन्धेषु एलादिषु तालेषु च निष्णातः सुज्ञः। विविधानां वक्ष्यमाणानामालप्तीनां तत्त्वज्ञः । मन्द्रमध्यतारस्थानोत्थगमकेषु निरायासशारीरगतिमान् । आयत्तकण्ठः; स्वाधीनकण्ठः । सावधानः; श्रुतिनिश्चयज्ञः । जितश्रमः ; बहुप्रबन्धगानेऽप्यश्रान्त: । शुद्धच्छायालगाभिज्ञः; मार्गसूडसालगसूडाभिज्ञः । काकुविशेषा वक्ष्यन्ते ; तदभिज्ञः । अनेकस्थायसंचारे प्रवीणः । स्थाया वक्ष्यन्ते । क्रियापरः; गानक्रियाभ्यासतत्परः । संगीतसमयसारकारेण क्रियापरस्य लक्षणमुक्तम्
"यथाशास्त्रप्रयोगेण मार्ग देशीयमेव च ।
यो गायति विना दोषान् कथ्यतेऽसौ क्रियापरः ॥" इति । युक्तलयः; गायकप्रसिद्धया रअकः । सुघटस्य लक्षणमुक्तं संगीतसमयसारकारेण
"स्वरो वर्णश्च तालश्च व्यक्तं घटयति त्रयम् । शोभनध्वनिसंयुक्तः सुघटं तं प्रचक्षते ॥"
Scanned by Gitarth Ganga Research Institute