________________
१५४
संगीतरत्नाकरः
रागरागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गकोविदः । 'प्रबन्धगाननिष्णातो विविधालप्तितत्त्ववित् ॥ १४ ॥ सर्वस्थानोत्थगमकेष्वनायासलसद्गतिः ।
आयत्तकण्ठस्तालज्ञः सावधानो जितश्रमः ॥ १५ ॥ शुद्धच्छायालगाभिज्ञः सर्वका कुविशेषवित् । अनेक स्थायसंचारः सर्वदोषविवर्जितः ॥ १६ ॥ क्रियापरो युक्तलयः सुघटो धारणान्वितः । स्फूर्जन्निर्जवनो ' हारिरहः कृद्भजनोद्धुरः ॥ १७ ॥ सुसंप्रदायो गीतज्ञैर्गीयते गायनाग्रणीः । गुणैः कतिपयैर्हीनो निर्दोषो मध्यमो मतः ॥ १८ ॥ महामाहेश्वरेणोक्तः सदोषो गायनोऽधमः । शिक्षाकारोऽनुकारश्च रसिको रञ्जकस्तथा ॥ १९ ॥ भावकश्चेति गीतज्ञाः पञ्चधा गायनं जगुः । अन्यून शिक्षणे दक्षः शिक्षाकारो मतः सताम् ॥२०॥ अनुकार इति प्रोक्तः परभङ्गयनुकारकः । रसाविष्टस्तु रसिको रञ्जकः श्रोतृरञ्जकः ।। २१ । गीतस्यातिशयाधानाद्भावकः परिकीर्तितः । एकलो यमलो वृन्दगायनश्चेति ते त्रिधा ॥ २२ ॥
आयत्तकण्ठः; स्वाधीनध्वनिः । क्रियापरः; अभ्यासतत्परः । सुघटः ; शोभनं यथा भवति तथा घटयतीति सुघटः । लौकिकदेशभाषया 'सुघड' इति वदन्ति । स्फूर्जन्निर्जवनः ; निर्जश्नस्य लक्षणं स्थायेषु वक्ष्यते । अप्रतिहतवेगवा
1 प्रबन्धतालेति सुधाकरपाठः
2 हारिरंहःकृदिति सुधाकरपाठः
Scanned by Gitarth Ganga Research Institute