________________
तृतीयः प्रकीर्णकाध्यायः
गान्धर्वस्वरादी मार्ग देशी च यो वेत्ति स गान्धर्वोऽभिधीयते ॥१२॥ यो वेत्ति केवलं मार्ग स्वरादिः स निगद्यते ।
इति गान्धर्वस्वरादी।
गायनलक्षणम् हृद्यशब्दः सुशारीरो ग्रहमोक्षविचक्षणः ॥१३॥ तत्र वैदग्ध्यम् | अवधानं पूर्वापरविनिश्चितिः। एभिर्गुणयुक्त उत्तमो वाग्गेयकारकः। यस्तु धातुं गेयं सम्यक् रचयति, मातौ वाग्गुम्फे च मन्दः स मध्यमः । यस्तु धातुं मातुं द्वयमपि जानाति, यस्य प्रबन्धेषु प्रौदिश्च नास्ति स मध्यमः । यस्तु मातुं सम्यक् रचयति, धातौ च मन्दः सोऽधम: । यस्तु वस्त्वभिधेयं सम्यक् रचयति स वर उत्तमः । यस्याभिधेये रमणीयता नास्ति, यश्च वर्णानेव सम्यक् रचयति स मध्यमः। यस्त्वन्यधातौ मातुं रचयति स कुट्टिकार इत्युच्यते । वाग्गेयकारदोषा उक्ता: संगीतसमयसारकारेण
"ग्राम्योक्तिरपशब्दश्च तद्वदप्रस्तुतस्तुतिः । गमके च पदे जाडयं प्रवन्धज्ञानहीनता ।। रसानुरूपरागाणामज्ञत्वमविदग्धता । क्रियानिर्वहणाज्ञत्वं मन्दशारीरता तथा ॥ माने न्यूनाधिकाज्ञत्वं रीतिभङ्गस्तथा पुनः । छायापरिच्युतिस्तद्गानं चासमये तथा ॥ अश्राव्यं लक्षणं त्यक्त्वा धातुमातू करोति यः ।
दोरेतैरुपेतो यो निन्द्यो वाग्गेयकारकः ॥" इति ॥ १-१२ ॥
(क०) गीतगुणदोषपरिज्ञातृतया सहृदयत्वेनोद्दिष्टौ गान्धर्वस्वरादी लक्षयति-मागे देशी चेति । अथ गायनं लक्षयति-हृद्यशब्द इत्यादिना। शब्दशारीरयोर्लक्षणमनन्तरं वक्ष्यते । ग्रहमोक्षौ अत्र गीतस्यारम्भपरिसमाप्ती; तयोविचक्षणः । तत्र विचक्षणत्वं नाम ग्रहताललयानुरोधेन गीतनिर्वाहकत्वम् ।
20
Scanned by Gitarth Ganga Research Institute