________________
संगीतरत्नाकरः
वाग्गेयकारादिलक्षणसमुचयरूपस्य प्रकीर्णकाध्यायस्य रागाध्यायानन्तरं युक्त आरम्भः । कर्णरसायनमिति सुकुमारशब्दोपनिबद्धत्वात् । अनाकुलं विशदम् । देशीमार्गाश्रयमिति । अत्र निरूपितानां गमकस्था यशारीर शब्दानामुभयत्रापि प्रयोगात् । वाग्गेयकारस्य निर्वचनं लक्षणं च कथयति - वाङ् मातुरिति । वाक् कात्र्यम् गायक प्रसिद्धया मातुरित्युच्यते । गेयं गानयोग्यं धातुरिति । उभयं यः कुरुते स वाग्गेयकारकः । उत्तमवाग्गेयकारकस्य गुणान् कथयति --- शब्दानुशासनेति । शब्दानुशासनं व्याकरणम् । अभिधानं नामलिङ्गानुशासनम् । छन्द: प्रभेदाः समार्धसमविषमादयः । अलंकारेषु वामनभामहादिप्रोक्तेषु ग्रन्थेषु उपमा दिनु वा | कौशलं प्रावीण्यम् । रसाः शृङ्गारादयः । भावा: निर्वेदादयः । देशस्थितिषु चातुरी देशका कुपरिज्ञानार्थम् । अशेषभाषाविज्ञानं देशैलादिनिर्माणाय । कलाशास्त्राणि चतुःषष्टिः संगीतशास्त्रादीनि । तौयंत्रितयं नृत्तगीतवाद्यानि । शारीरं वक्ष्यमाणलक्षणम् । लयतालकला अपि तालाध्याये वक्ष्यमाणलक्षणाः । काकवः देशकाक्कादयो वक्ष्यमाणलक्षणाः । प्रभूतप्रतिभोदभाक्त्वं बहुप्रतिभोदयवत्ता । प्रतिभा प्रमेयस्फूर्तिः शक्तिशब्देनोच्यते कविभिः । तदुक्तं काव्यप्रकाशे
१५२
"शक्तिर्निपुणता लोकशास्त्रकात्र्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ "
इति। सुभगगेयता श्रभ्यगानत्वम् । देशीरागाः श्रीरागादयः पूर्वोक्ताः । रागद्वेषपरित्यागः वादेषु प्राश्निकत्वाय । सार्द्रत्वं सरसचित्तत्वम् । उचितज्ञता रस निर्वाहार्थम् । तदुक्तम् –
८८
अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धयौचित्यबन्धस्तु रसस्योपनिषत् परा ॥ "
इति । अनुच्छिष्टा उक्तिः अन्येन कविना रचितशब्दपरंपरापरित्यागेन माधुर्यकविनिबद्धता | प्रबन्धेषु एलादिषु । लक्षणपरिज्ञानमुपनिबन्धनशक्तिश्च प्रगल्भता । द्रुतगीतविनिर्माणं शीघ्रगीतनिर्माणम् । पदान्तरलक्षणं वक्ष्यति प्रबन्धाध्याये ।
Scanned by Gitarth Ganga Research Institute