________________
१५१
तृतीयः प्रकीर्णकाध्यायः अनुच्छिष्टोक्ति निबन्धो नूनधातुविनिर्मितिः ॥७॥ परचित्तपरिज्ञानं प्रबन्धेषु प्रगल्भता। द्रुतगीतविनिर्माणं पदान्तरविदग्धता ।। ८ ।। त्रिस्थानगमकप्रौढिविविधालप्तिनैपुणम् । अवधानं गुणैरेभिर्वरो वाग्गेयकारकः ॥ ९ ॥ विदधानोऽधिकं धातुं मातुमन्दस्तु मध्यमः । धातुमातुविदप्रौढः प्रबन्धेष्वपि मध्यमः॥१०॥ रम्यमातुविनिर्माताप्यधमो मन्दधातुकृत् । वरो वस्तुकविवर्णकविर्मध्यम उच्यते ॥ ११ ॥ कुहिकारोऽन्यधातौ तु मातुकारः प्रकीर्तितः।
इति वाग्गेयकारलक्षणम् । प्रबन्धेषु एलायेषु । पदान्तरं नानागीतच्छायानुकारिंगीतनिर्माणम् । गमकाः तिरिपादयो वक्ष्यमाणाः । विविधालप्तयः रागरूपकादिविशेषणयुक्ता वक्ष्यमाणाः । अवधानं चित्तैकाग्रता। एतानि शब्दानुशासनज्ञानार्दनि समुदितानि वाग्गेयकारस्य लक्षणम् , न तु प्रत्येकं लक्षणानि । वस्तुकविः कथाकविः। वर्णकविः वर्णनाकविः । अन्यधातौ मातुकारस्तु कुट्टिकारः प्रकीर्तितः इत्यन्वयः । अत्र तुशब्देन कुट्टिकारस्याधमाधमत्वं घे.त्यते । तेन कुट्टिकारोऽत्यन्ताधम इत्यवगन्तव्यः ॥ १-१२ ॥
(सं०) तृतीयं प्रकीर्णकाध्यायं वक्तुं प्रतिजानीते-अथेति । प्रथमाध्याये स्वरान् निरूप्य स्वरेभ्य: साक्षात् समुत्पन्ना जातयो निरूपिताः । ततो रागाणां जातिभ्यः समुत्पन्नत्वाद्रागाणां निरूपणं प्राप्तावसरमिति द्वितीयाध्याये रागा निरूपिताः । रागाभिव्यक्तिहेतुत्वादालप्तिलक्षणमपेक्षितम् । तत्र रागलक्षणेषु गमकानामुपयोग उक्तः । अतो गमकलक्षणमप्यपेक्षितम् । रागाणां च केवलं लक्षणतो दुनित्वाद्वाग्गेयकारादिप्रसिद्धिरपेक्षिता । अतो
Scanned by Gitarth Ganga Research Institute