________________
[प्रकरणम्
छाया
संगीतरत्नाकरः उत्पली मध्यमांशग्रहन्यासा संपूर्णा तारथैवता ।
निमन्द्रा सपतारा स्यादुत्पलीयं समस्वरा ।। गोली धैवतांशग्रहन्यासा गनिहोना रितारजा।।
धरिसर्बहुला गोली गातव्या गीतवेदिभिः । नादान्तरी मग्रहांशा च पन्यासा रितारा मन्द्रसंमता ।
बहुली निधसैः पूर्णा गाल्पा नादान्तरी मता ।। नीलोत्पली धैवतांशग्रहा तारषड्जन्यासा पमन्द्रजा ।
समस्वरा हीननिगा ज्ञेया नीलोत्पली बुधैः ।। मध्यमांशग्रहन्यासा रिमन्द्रा तारगा परा ।
अल्पशेषा पभूयिष्ठा छाया स्याद्वीतषड्जिका ।। तरङ्गिणी ऋषभान्तग्रहा धांशा संपूर्णा सममन्द्रभाक् ।
समस्वरा ताररिया संकीर्णा स्यात्तरङ्गिणी । गान्धारगतिः गांशा सान्ता पग्रहा च स्यात्तारनिरिवैवता ।
गान्धारगतिका प्रेक्ता संकीर्णा च समस्वरा ।। बेरञ्जी सन्यासांशग्रहा पूर्णा समन्द्रा निवभूयसी ।
पाल्पा पतारा वेरञ्जी वरे संकीर्णलक्षणा ।।
__इति भाषाङ्गाणि । अथ क्रियाङ्गाणि
भावक्रीप्रभृतीनां तु द्वादशानां तु लक्षणम् । षड्जन्यासग्रहांशश्च समानमितरत् पुनः ॥ संपूर्णत्वादिकं तद्वत् स्वराल्पत्वादिकं तथा । तत्तद्गमकयुक्तत्वादिकं ज्ञेयं हि लक्ष्यतः ॥
इति क्रियाङ्गाणि।
Scanned by Gitarth Ganga Research Institute