________________
द्वितीयो रागविवेकाध्यायः अथोपाङ्गानिपूर्णाटः धग्रहो मध्यमन्यासपूणों बहुलपञ्चमः ।
पूर्णाटो भिन्नषड्जे स्यादन्ये तं सालगं जगुः ।। मांशग्रहान्तो रिवयोर्मुदुमध्यमकम्पितः । निरिधाल्पश्च देवालो बङ्गालोपाङ्गमिप्यते ॥ प्रयुञ्जतेऽस्मिन् प्राचीनाः कामे.दोक्तं च लक्षणम् । मतङ्गो देवलामाह तमेतं गीतकोविदः । पञ्चमांशमहन्यासा गमन्द्रा रिनिवर्जिता । कुरजी ललितोपाङ्गं षड्जपञ्चमभूयसी ॥
देवाल:
इत्युपाङ्गानि । इति प्राक्प्रसिद्धदेशीरागाः ।
चतुरः कल्लिनाथार्यो गानविद्याविशेषवित् । शेषं रागविवेकस्य लक्षणैरित्यपूरयत् ॥
इति रागागादिनिर्णयाख्यं द्वितीयं प्रकरणम्
इति श्रीमद भिनवभरताचार्यरायवय(वाग्गेय)कारतोडरमल्ललक्ष्मणाचार्यनन्दनचतुरकल्लिनाथविरचिते संगीतरत्नाकरकलानिधी
रागविवेकाख्यो द्वितीयोऽध्यायः
Scanned by Gitarth Ganga Research Institute