________________
१४५
घण्टारवः
द्वितीयो रागविवेकाध्यायः अथ प्राक्प्रसिद्धदेशीरागा:शंकगभरणः यदायं मध्यमादिश्चेत् स्यान्मन्द्रस्वरमुद्रितः ।
छायान्तरेण युक्तः स्याच्छंकराभरणस्तदा ॥ घण्टारवो धग्रहांशो मन्द्रगान्धारमेदुरः ।
नितारो भिन्नषड्जाङ्गं मध्यमन्यासमण्डितः ।। हंसक: हंसको भिन्नषड्जाङ्गं धग्रहांशः सवर्जितः । दीपक: संपूर्णो दीपको जातो भिन्नकैशिकमध्यमात् ।
गपाल्पः सग्रहो मान्तः संकीर्णो दीप्तमध्यमः ।।
धन्नासिकैवोच्चतरा दीपकोऽन्यैर्बुधैः स्मृतः । रीतिः सन्यासांशग्रहा पूर्णा रीतिः स्याद्भिन्नषड्जजा । पूर्णाटिका पड्जन्यासग्रहा धांशा सतारा मन्द्रमध्यमा ।
समस्वरा च संकीर्णा पूर्णा पूर्णाटिका मता ॥
सन्यासांशग्रहा पूर्णा लाटी स्याल्लाटदेशजा । पल्लवी धैवतांशग्रहन्यासा गतारा मन्द्रमध्यमा । पल्लवी नाम पूर्णेयं सगरिप्रचुरा भवेत् ॥
इति रागाङ्गाणि। अथ भाषाङ्गाणि- . गाम्भीरी षड्जग्रहांशा गाम्भीरी पञ्चमान्ता समस्वरा ।
संपूर्णा तारषड्जा च स्वरेष्वल्पादिवर्जिता ॥ वेहारी
मध्यमांशग्रन्यासा षड्जान्ता च निवर्जिता ।
समस्वरा च वेहारी सतारा मन्द्रमध्यमा ॥ श्वसिता गान्धारग्रहणन्यासा षड्जांशा तारवर्जिता ।
समस्वरा समन्दा च श्वसिता स्याद्रिपोज्झिता ।।
लाटी
19
Scanned by Gitarth Ganga Research Institute