________________
१४४
संगीतरत्नाकरः
[प्रकरणम्
प्रसवः
अथ निरुपपदरागा:नट्टः मध्यमोदीच्यवाजातेर्नट्टस्तारस्थषड्जकः ।
मध्यमांशग्रहन्यासः संपूर्णश्च समस्वरः ॥ भासः आन्ध्रीसमुद्भवो भासो ग्रहांशन्यासधैवतः । रक्तहंसः रक्तगान्धारिकाजातो रक्तहंसो रिवर्जितः ।
धैवतांशग्रहन्यासस्तारगान्धारमेदुरः ।। कोल्हासः नैषादीधैवतीयुक्तशुद्धजातिसमुद्भवः ।
षड्जन्यासग्रहांशश्च कोल्हासो रिधदुर्बलः ॥ नन्दयन्तीसमुद्भूतः प्रसवो मग्रहांशकः ।
सन्यासो निधयोर्युक्तः पूर्णो वीरे नियुज्यते ॥ ध्वनिः गान्धारपञ्चमीजातो ध्वनिः पूर्णः पधाधिकः ।
पञ्चमांशग्रहन्यासो निगाल्पो मन्द्रमध्यमः ।। कंदर्पः षड्जकैशिक्या जातः षड्जग्रहांशकः ।
षड्जान्तो मन्द्रषड्जश्च पञ्चमेन विवर्जितः ॥ देशाख्यः धैवतीमध्यमाजात्योर्जातो धांशग्रहान्तिमः ।
देशाख्यः स्वल्पगान्धारो ममन्द्रो हीनपञ्चमः ॥ कैशिकककुभः धैवतांशग्रहन्यासो गतारो मन्द्रपञ्चमः ।
स्यात्तत्र हेतुजात्युक्तः ककुभान्तस्तु कैशिकः ॥ नट्टनारायणः नट्टनारायणः पूर्णः षड्जन्यासग्रहांशकः ।
मध्यमापञ्चमीजातः सकाकल्यन्तरः सदा। करुणे कालदैवत्यो गेयः शरदि तारगः ॥
इति निरुपपदरागाः।
कंदर्पः
Scanned by Gitarth Ganga Research Institute