________________
द्वितीयो रागविवेकाध्यायः
१४३
अथानुक्तजनकाःपल्लवीविभाषा धान्तांशा पल्लवी पूर्णा गतारा रिसभूयसी ।
अन्तरभापाः भासवलिता धाद्यन्तांशाल्परिर्भासवलिता पञ्चमोज्झिता । किरणावली धग्रहांशा तारगनिर्निमन्द्रा किरणावली । शकवलिता शकाद्या वलिता मांशा धन्यासा धनिसंगता ।
इत्यन्तरभाषाः। इत्यनुक्तजनकाः ।
अथोपरागाः-- शकतिलकः स्यात् षाड्जीधैवतीजात्योः षड्जांशन्याससंयुतः ।
दुर्बल: पञ्चमो यत्र शकाद्यस्तिलकस्तु सः ॥ टक्कसैन्धवः स्यात् षाड्जीकैशिकीजात्योः संभूतष्टकसैन्धवः ।
षड्जांशन्याससंयुक्तः पञ्चमेन तु दुर्बलः ॥ कोकिलापञ्चमः पञ्चमीमध्यमाजात्योः कोकिलापञ्चमो भवेत् ।
पञ्चमांशग्रहः पूर्णो मध्यमन्याससंयुतः ॥ भावनापञ्चमः गान्धारपञ्चमीजातेर्भावनापञ्चमो भवेत् ।
गान्धारग्रहसंयुक्तः पञ्चमांशः समस्वरः ।। नागगान्धारः गान्धारीरक्तगान्धार्यो गगान्धारको भवेत् ।
गान्धारांशग्रहन्यासः काकल्यन्तरसंयुतः ॥ नागपञ्चमः नागपश्चमरागोऽयमार्षभीधैवतीभवः ।। ऋषभांशग्रहस्त्यक्तगान्धारो धैवतान्तिमः ॥
इत्युपरागाः।
Scanned by Gitarth Ganga Research Institute