________________
१४२
श्रीकण्ठी
अथ मालवपञ्चमे -
वेगवती
भावनी
संगीतरत्नाकर:
निक्यो रिधयोर्युक्ता श्रीकण्ठी मग्रहान्तिमा । विभाषा पञ्चमत्यक्ता जाता वेसरपाडवे ॥ इति वेसरपाडवविभाषे ।
विभावनी
―――
सग्रहान्ता वेगवती धांशा मालवपञ्चमे ।
सप्तस्वरा विभाषेयमञ्जनासृनुसंमता ॥
भावनी पञ्चमांशान्तग्रहा मालवपञ्चमात् । जाता विभाषा षड्जापन्यासा ऋषभवर्जिता ॥ विभावनी विभाषा स्यात् पूर्णा मालवपञ्चमे । पञ्चमांशग्रहन्यासा मगधाल्पा पमन्द्रभाक् ॥ इति मालवपञ्चमविभाषाः ।
अथ भिन्नताने
तानोद्भवा
भिन्नतानोद्भवा तानोद्भवा ऋषभवर्जिता । पञ्चमांशग्रहन्यासा साधारणकृता मता ॥ इति भिन्नतानभाषा |
अथ पञ्चमषाडवे
पोता
ऋषभांशग्रहन्यासा धहीना निसभूयसी । पोता प्रोक्ता मतङ्गेन भाषा पञ्चमषाडवे || इति पचमषाडवभाषा ।
अथ मतान्तरेण रेवगुप्ते
शका
सन्यासा रेवगुप्तस्य भाषा मांशा शकाह्वया । गपाभ्यां बहुला पूर्णा रिधाभ्यामपि भूयसी ॥ इति रेवगुप्तभाषा ।
[ प्रकरणम
Scanned by Gitarth Ganga Research Institute