________________
१४१
श्रीकण्ठी
द्वितीयो रागविवेकाध्यायः धाद्यन्तांशा परहिता श्रीकण्ठी भिन्नषड्जजा । भाषापन्यासऋषभा रिमयोः संगता भवेत् ॥ गान्धारांशा मध्यमान्ता गान्धारी मध्यमोज्झिता । गेयैकान्ते भिन्नषड्जभाषा शार्दूलसंमता ॥
इति भिन्नपड्जभाषाः।
गान्धारी
पौराली विभाषा भिन्नषड्जस्य मांशा धान्ता रिदुर्बला ।
नागप्रिया स्यात् पौराली मरिपैः संगता मिथः ।। मालवी
पूर्णा सरिगमैर्बह्वी ग्रहांशन्यासधैवता।
धमन्दा भिन्नषड्जोत्था विभाषा मालवी मता ।। कालिन्दी गग्रहा धान्तिमा न्यल्पा परिहीना समस्वरा ।
विभाषा स्यात्तु कालिन्दी विस्मये भिन्नपड्जजा ॥ देवारवर्धनी भिन्नषड्जे विभाषा तु भवेद् देवारवर्धनी । निषादांशा धैवतान्ता ऋषभेण विवर्जिता ॥
इति भिन्नषड्जविभापाः।
नाद्या
अथ वेसरपाडवे
संकीर्णा सग्रहा मान्ता गबह्वी पञ्चमोज्झिता ।
सायाह्ने गीयते नाद्या भाषा वेसरपाडवे ॥ बाह्यषाडवा निगयो रिगयोर्युक्ता संपूर्णा बाह्यषाडवा ।
मध्यमांशग्रहन्यासा भाषा वेसरषाडवे ।।
इति वेसरपाडवभाषे।
पार्वती
विभाषा पार्वती पूर्णा सांशा वेसरषाडवे ।
Scanned by Gitarth Ganga Research Institute