________________
१४०
अथ भिन्नषड्जे
गान्धारवल्ली गान्धारवल्ली भाषा स्याद्भिन्नषड्जस्य धान्तिमा । मांशा पूर्णा सधयुता गीयते पितृकर्मणि ॥ षड्जग्रहांशा मन्यासा कूटतानसमाश्रया । गधहीना भिन्नषड्जे कच्छेलीं तां विदुः परे ॥ स्वरवल्लिका मग्रहांशा मन्द्रतारऋषभा गनिवर्जिता ।
रिहीना निग्रहा धांशन्यासा स्यात् स्वरवल्लिका | भिन्नषड्जस्य भाषेयं मृदुला मुनिसंमता ॥ निषादिनी भिन्नपड्जभाषा धांशग्रहान्तिमा । मध्यमा भिन्नषड्जस्य भाषा मान्ता ग्रहांशधा । धांशग्रहान्ता मृदुलधैवता रिपवर्जिता । पवर्जिता वा सगयोः संबद्धा भिन्नषड्जजा । सापन्यासा मन्द्रसगधा शुद्धा दीर्घपञ्चमा || धाद्यन्तांशा दाक्षिणात्या भाषा पञ्चमदुर्बला । सधयोः समयोर्युक्ता षाडवा भिन्नषड्जजा ॥ सान्ता धांशा हीनगपा पुलिन्दी भिन्नषड्जजा । सधयोः समयोर्युक्ता पुलिन्दजनवल्लभा ॥ तुम्बुरा भिन्नषड्जस्य भाषा ऋषभवर्जिता । धैवतांशग्रहन्यासा गीयते ब्रह्मचारिणी || षड्जभाषा भिन्नषड्जभाषा धांशग्रहान्तिमा । सकाकल्यन्तरा त्यक्तरिपा देवार्चने मता ॥ गांशा निदुर्बला धान्ता परिहीना चतुःस्वरा । हृद्यारोहावरोहा तु कालिन्दी भिन्नपड्जजा ||
कच्छेली
निपादिनी
मध्यमा
शुद्धा
दाक्षिणात्या
पुलिन्दी
तुम्बुरा
षड्जभाषा
संगीतरत्नाकरः
कालिन्दी
[ प्रकरणम्
Scanned by Gitarth Ganga Research Institute