________________
२]
गुर्जरी
पौराली
अर्धवे
शुद्धा
मालवरूपा
आभीरी
द्वितीयो रागविवेकाध्यायः
रिन्योश्च रिमयोश्चैव संगता निग्रहांशिका | षड्जान्ता गुर्जरी पूर्णा भाषा मालवकैशिके ॥ पौराली सग्रहांशान्ता षड्जमध्यमभूयसी । संपूर्णा चैव संकीर्णा जाता मालवकैशिकात् ॥ षड्जन्यासा मध्यमांशग्रहा पूर्णार्धवेसरी। निदुर्बला बहुसमा भाषा मालवकैशिके ॥ मध्यमांशग्रहा षड्जन्यासा सप्तस्वरैर्युता । शुद्धा हर्षे नियुक्ता जाता मालवकैशिकात् ॥ गान्धारप्रबला षड्जग्रहांशान्ता निधोज्झिता । भाषा मालवरूपा स्यादेषा मालव कैशिके ॥ साधारणकृताभीरी निगाल्पा सरिसंगता । पूर्णा सान्तग्रहा वीरे भाषा मालवकैशिके ॥ इति मालवकैशिकभाषाः ।
काम्भोजी
साद्यन्तांशा निबहुला गमकोत्था रिपोज्झिता । काम्भोजी मन्द्रषड्जा विभाषा मालवकैशिके ॥ देवावर्धनी देवारवर्धनी मान्ता जाता मालवकैशिकात् । विभाषा त्यक्तगान्धारनिषादा पञ्चमान्तिमा || इति मालवकैशिकविभाषे ।
अथ गान्धारपञ्चमे—
गान्धारी
गान्धारपञ्चमे भाषा गान्धारी सगभूषिता । धाद्यन्ता सर्वलोकस्य हृद्या स्त्रीणां विशेषतः ||
इति गान्धारपश्चमभाषा ।
१३९
Scanned by Gitarth Ganga Research Institute