________________
द्वितीयो रागविवेकाध्यायः वराटी भिन्नपञ्चमभाषा स्याद् वराटी धमभूयसी ।
धान्ता रिदुर्बला मांशा सधयोर्निगये युता ।। विशाला सधसंचारिणी पूर्णा पांशा धान्ता धभूषिता ।
भिन्नपञ्चमभाषा तु विशाला किंनरप्रिया ॥
___इति भिन्नपञ्चमभाषाः । कौशली निषादांशग्रहा भिन्नपञ्चमस्य विभाषिका ।
कौशली धैवतन्यासा ऋषभेण विवर्जिता ।।
इति भिन्नपञ्चमविभाषा। अथ टक्कैशिकेमालवा धाद्यन्तांशा मालवा स्यात् संपूर्णा टक्ककैशिके ।
संचारः सधयोर्यस्यां रिधयोश्चैव दृश्यते ॥ भिन्नवलिता धान्ता सांशग्रहा भिन्नलिता टक्ककैशिके । भाषा भवेद्भरिनिधा तत्संगतिमती मता ॥
इति टक्कैशिकभापे। द्राविडी मग्रहांशा धैवतान्ता निगयोः सधयोर्युता ।
टक्ककैशिकरागस्य विभाषा द्राविडी मता ॥
इति टक्कैशिकविभाषा। अथ हिन्दोलेवेसरी हिन्दोलभाषा सान्तांशा वेसरी रिधदुर्बला ।
संगता सगयो रिन्योः प्रेक्षणे विनियुज्यते ।। चूतमञ्जरी सपसंचारिणी सान्ता पग्रहांशा रिवर्जिता ।
हिन्दोलभाषा निगयोर्युता स्याच्चूतमञ्जरी ॥
Scanned by Gitarth Ganga Research Institute