________________
[प्रकरणम
गुर्जरी
इति टक्कावमापा
गुर्जरी
संगीतरत्नाकरः संगता समयो रिन्योः संपूर्णा निग्रहांशिका ।
षड्जान्ता देशजा टक्कविभाषा गुर्जरी मता ॥ भावनी पांशग्रहान्तसा टक्कविभाषा भावनी स्मृता ।
इति टक्कविभाषाः। अथ शुद्धपञ्चमे___ तानोद्भवा मांशाल्पऋषभा पान्ता संकीर्णा धमसंगता ।
तानोद्भवा पञ्चमस्य भाषा प्रबलपञ्चमा ॥ आभीरी पग्रहांशान्तिमा पूर्णा न्यधिका समयोयुता ।
आभीरी पञ्चमोद्भूता रणे काकलिसंयुता ।। शुद्धपञ्चमभाषा स्याद् गुर्जरी पग्रहांशिका ।
पान्ता समोच्चा संपूर्णा गपापन्यासभूषिता । आन्ध्री रिग्रहा काकलीयुक्ता पञ्चमान्ता सदुर्बला ।
शुद्धपञ्चमभाषा स्यादान्ध्री किंनरवल्लभा ॥ माङ्गली
धग्रहा पञ्चमे भाषा माङ्गली सधसंगता ।
रिपसंवादिनी धान्ता संकीर्णा काकलीयुता ॥ भावनी शुद्धपञ्चमभाषा स्याद्भावनी पग्रहान्तिमा । रिहीना मन्द्रसा मापन्यासा समनिभूयसी ।।
इति शुद्धपश्चमभाषाः। अथ भिन्नपञ्चमेधैवतभूषिता पूर्णा धांशग्रहन्यासा सधयो रिधयोर्युता ।
भिन्नपञ्चमसंभूता भाषा धैवतभूषिता ॥ शुद्धभिन्ना भिन्नपञ्चमजा शुद्धभिन्ना धांशा ग्रहान्तिमा ।
रिधयोः समयोर्युक्ता पूर्णा किंनरवल्लभा ॥
Scanned by Gitarth Ganga Research Institute