________________
१३५
पञ्चमी
द्वितीयो रागविवेकाध्यायः पांशग्रहा टक्कभाषा षड्जान्ता पश्चमी मता।
रिपयोः समयोर्यस्यां संवादः पूर्णतापि च ॥ गान्धारपञ्चमी सन्यासा धग्रहा पूर्णा समसङ्गा गभूषिता।
संकीर्णा टक्कजा प्रेक्ता भाषा गान्धारपश्चमी ॥ मालवी पधमिश्रा तदन्तांशा मालवी टक्कसंभवा ।
रिहीना तारगान्धारषड्जमध्यमकम्पिता ॥ तानवलिता षड्जान्ता मध्यमाद्यंशा सपयोर्मूदुलालिता ।
टक्कोद्भवा भवेत्तानवलिता मुनिसंमता ॥ रविचन्द्रिका सग्रहान्ता रिपस्वल्पा संकीर्णा गमकान्विता ।
रिसयोः समयोर्युक्ता टक्कजा रविचन्द्रिका । ताना तानाख्या सग्रहांशान्ता धापन्यासा रिपोज्झिता ।
टक्कजा करुणे मन्द्रे निसा तद्गमकाञ्चिता ।। अम्बाहेरी गधाधिका मग्रहांशा सान्ता वीरे समस्वरा ।
अम्बाहेरी टक्कभाषा देशाख्या पञ्चमाकिता ।।
देशाख्या टक्कजा दोह्या गाद्या सान्ता रिपोज्झिता । वेसरी पहीना सग्रहान्तांशा निधयोः सधयेर्युता । वेसरी टक्कभाषा स्याद् वीरे गेया सकाकलिः ॥
इति टक्कभाषाः। देवारवर्धनी पञ्चमांशग्रहा षड्जन्यासा देवारवर्धनी।
संपूर्णा टक्करागस्य विभाषा परिकीर्तिता ।। आन्ध्री मध्यमांशाहा टक्कविभाषा पञ्चमान्तिमा ।
प्रहृष्टे विनियोक्तव्या स्यादान्ध्री चान्ध्रदेशजा ।।
दोह्या
Scanned by Gitarth Ganga Research Institute