________________
संगीतरत्नाकर:
[ प्रकरणम्
(क०) इह ग्रन्थकारेणोद्दिष्टानामपि लक्ष्ये प्रसिद्धिवैधुर्यात् अधुनाप्रसिद्धरागाजनकत्वाच्चानुक्तलक्षणानां भाषारागादीनां स्वरूपपरिज्ञानाय मतङ्गाञ्जनेयादीनां मतानुसारेण लक्षणानि संक्षिप्य वक्ष्यन्ते ।
तत्रादौ सौवीरजाः
वेगमध्यमा सौवीरजा सग्रहान्ता संपूर्णा सपसंगता ।
१३२
मध्यमांशा स्मृता वेगमध्यमा मध्यमोज्ज्वला || सौवीरा साधारिता स्यान्मन्यासा सग्रहांशिका | रिमयोः समयोर्युक्तगमका सकलस्वरा ॥ गान्धारी करुणे सान्ता संपूर्णा निग्रहांशका । सौवीरजा
इति सौवीरभाषाः ।
अथ ककुभभाषा स्याद्भिन्नपञ्चमी । मापन्यासा रिमपधबहुलाङ्गोज्झितांशिका ॥ काम्भोजी काम्भोजी ककुभस्य स्याद्भाषा धांशग्रहान्तिमा । सधसंवादिनी पूर्णा रिपसंवादिनी तथा ॥
मध्यमग्रामी ककुभे मध्यमग्रामी भाषा धांशग्रहांशिका | माध्यमग्रामिकी पूर्णा संकीर्णा रिधसंगता ||
साधारिता
गान्धारी
अथ ककुभे—
भिन्नपञ्चमी
माध्यमग्रामिकीति । स्वजनकस्य ककुभस्य द्विग्रामत्वेन स्वस्या तथात्वे प्राप्ते अनेन विशेषवचनेनास्यां षड्जस्त्रिश्रुतिः प्रयोक्तव्य इत्यवगम्यते । पूर्णेति विशेषणेनात्र ग्रामभेदकता न; प्रयोगाभावात् । संकीर्णेति । पूर्वं भाषाणां 'संकीर्णा देशजा मूला छायामात्रेति नामभिः' इति याष्टिकमतेन चातुर्विध्यं दर्शितम् । तत्र संकीर्णत्वं नाम मतङ्गमतेन स्वराख्यत्वमिति पूर्वं व्याख्यातम् । तत् द्रष्टव्यम् ।
Scanned by Gitarth Ganga Research Institute