________________
२]
द्वितीयो रागविवेकाध्यायः
१३१
मालवा
मालवा तस्य भाषा स्याद् ग्रहांशन्यासधैवता । षड्जधौ संगतौ तत्र स्यातानृषभपञ्चमौ ॥ १९३॥
धाधासारि सामापामा गारीमाधा पाधाधानी धासाधा ।
इति मालवा ।
द्राविडी
गान्धारांशग्रहा धान्ता द्राविडी तद्विभाषिका । द्विश्रुत संगतौ तत्र भवेतां षड्जधैवतौ ॥ १९४ ॥
गासागामा धाधा पामा धाधा गास निधाधास गासन धापनिमागा मनिधा ।
इति द्राविडी ।
इति रागाङ्गादिनिर्णयाख्यं द्वितीयं प्रकरणम्
इति श्रीमदनवद्यविद्याविनोद श्रीकरणाधिपति श्रीसोढलदेवनन्दननिःशङ्कश्रीशार्ङ्गदेवविरचिते संगीतरत्नाकरे रागविवेकाध्यायो द्वितीयः
मालवेति । तस्यां षड्जधैवतयोः संगतिः ऋषभपञ्चमयोश्च । द्राविड लक्षयतिगान्धारेति । धान्ता; धैवतन्यासा । द्विश्रुत्योर्निषादगान्धारयोः संगति: षड्जधैवतयोश्च ॥ १९०-१९४॥
इति रागाङ्गादिनिर्णयाख्यं द्वितीयं प्रकरणम्
इति श्रीमदन्ध्रमण्डलाधीश्वरप्रति गण्डभैरव श्रीमदनपोतनरेन्द्रनन्दन भुजबलभीमश्रीसिंहभूपालविरचितायां संगीतरत्नाकरटीकायां संगीतसुधाकराख्यायां रागविवेकाध्यायो द्वितीयः
Scanned by Gitarth Ganga Research Institute