________________
द्वितीयो रागविवेकाध्यायः
१३३ प्रसङ्गादौमापत्योक्तं रागाणां त्रैविध्यं प्रदर्श्यते । रागास्तावत् त्रिविधा:शुद्धाः छायालगाः संकीर्णाश्चेति । तत्र शुद्धरागत्वं नाम शास्त्रोक्तनियमानतिक्रमण स्वतो रक्तिहेतुत्वम् । छायालगरागत्वं नामान्यच्छायालगत्वेन रक्तिहेतुत्वम् । संकीर्णरागत्वं नाम शुद्धच्छायालगमिश्रत्वेन रक्तिहेतुत्वम् । एतत् प्रकृतसंकीर्णत्वादन्यदेव । यथोक्तमुमापतिना
" मयैव पञ्चभिर्वक्त्रैः सृष्टाः पूर्व कुतुहलात् । अतः संभूय शुद्धास्ते षट्त्रिंशत् संख्ययोदिताः ॥ एतेषां छायया जाताश्छायालगसमाह्वयाः । असंख्याकास्तु ते तेषु शतमेकोत्तरं क्रमात् ॥ शुद्धं तु शिवरूपेण शक्तिरूपेण सालगम् । द्वयोर्मिश्रं तु संकीर्णमतस्ते त्रिविधा मताः ।। वराटीललिताभ्यां च शुद्धादृषभरागतः । उत्पन्नोऽयं वसन्तस्तु संकीर्णत्वेन लक्षितः ॥” इति । मधुरी ककुभोद्भूता सांशा धान्ताखिलस्वरा ।
गपयोनिधयोर्युक्ता संकीर्णा याष्टिकोदिता ॥ शकमिश्रा निपयो रिधयोर्यस्यां संवादो निग्रहांशता । रिन्यासा ककुभे भाषा शकमिश्रा तु सा मता ॥
इति ककुभभाषाः।
मधुरी
आभीरिका आभीरिका माद्यन्तांशा पतारा मन्द्रधैवता ।
द्रुतप्रयोगा निरिसैविभाषा ककुभोद्भवा ॥ निवेदे विनियोक्तव्या पूर्णा प्रचुरमध्यमा ।
Scanned by Gitarth Ganga Research Institute