________________
संगीतरत्नाकरः
[प्रकरणम्
आम्रपञ्चमः गान्धारांशग्रहन्यासो मन्द्रमध्यसमुद्भवः ॥१६८॥ निगतारो मन्द्रहीनो रागः स्यादाम्रपञ्चमः। शाहदेवेन गदितो हास्याद्भुतरसाश्रयः ॥ १६९ ॥ इत्याम्रपञ्चमः । इति प्रसिद्धरागाः।
कैशिकी शुद्धपश्चमभाषा स्यात् कैशिकी मपभूयसी। पन्यासांशग्रहा मापन्यासा सगमतारभाक् ॥१७॥ ईर्ष्यायां विनियोक्तव्या भाषा केचिदचिरे। समस्वरा रितारा सा ममन्द्रा चोत्सवे भवेत् ।।१७१॥
पापापा समधा सानी सासासाधा माससम धास नीसरी गासासा सधम मामासस धसमनी नीधा मामगमा पाप समधासा मा धासा। पाधासामाधासमाधासनि रीसनी गसा। सधमागा गस सास धमासस धसमनी नीधामाम गामा पापा-इत्यालापः। जाति: । गतारमन्द्र इति । गान्धारस्य मध्यमत्वं नास्ति । धैवतांशः । षड्जन्यासः । आम्रपञ्चमं लक्षयति-गान्धारांशेति । मन्द्रेभ्यो मध्यमेभ्यश्च स्वरेभ्यः समुद्भवो यस्य । तारनिषादगान्धारः । मन्द्रहीनो वेति पक्षान्तरम् , मन्द्रमध्यसमुद्भव इत्युक्तत्वात् ॥ १६४-१६९ ॥
(सं०) कैशिकी लक्षयति- शुद्धपञ्चमभाषेति । मध्यमपञ्चमबहुला । पञ्चमन्यासांशग्रहा | मध्यमापन्यासा । षड्जगान्धारमध्यमैस्तायुका । तेषां मन्द्रमध्यमत्वं नास्ति | मतान्तरेण कैशिकभाषाङ्गभागत्वेन लक्षणम् - समस्वरेति ॥ १७०, १७१॥
Scanned by Gitarth Ganga Research Institute