________________
द्वितीयो रागविवेकाध्यायः
मेघरागः षड्जे धैवतिकोद्भतः षड्जतारसमस्वरः ॥१६४ ॥ मेघरागो मन्द्रहीनो ग्रहांशन्यासधैवतः।
इति मेघरागः।
सोमरागः षड्जे षाड्जीभवः षड्जग्रहांशान्तो निगोत्कटः ।। सोमरागः स्मृतो वीरे तारमध्यस्थमध्यमः।
इति सोमरागः।
प्रथमकामोदः तारषड्जग्रहः षड्जे षड्जमाध्यमिकोद्भवः ॥१६६।। गतारमन्द्रः कामोदो धांशः सान्तः समस्वरः।
इति प्रथमकामोदः ।
द्वितीयकामोदः षड्जे षाड्जीभवः षड्जग्रहांशन्याससंयुतः ।। समस्वरोऽन्यः कामोदो मन्द्रगान्धारसुन्दरः।
इति द्वितीयकामोदः। लक्षयति-ऋषभांश इति । पाल्पः; अल्पपश्चमः । शुद्धभैरवं लक्षयति-- तारमन्द्र इति । तारमन्द्रो मध्यमस्वरहीनः । आषड्जगान्धारं; षड्जपर्यन्तं गान्धारपर्यन्तं वा विकल्पेन तारमन्द्रत्वं धैवतादंशस्वरादारभ्य ॥१६०-१६४॥
(सं०) मेघरागं लक्षयति-षड्ज इति । षड्जे षड् जग्रामे । एतस्मिन् षड़ जस्तार एव । मन्द्रत्वं मध्यमत्वं च न स्ति। अन्येषां स्वराणां मन्द्रत्वं नास्ति । सोमरागं लक्षयति-षड्ज इति । निगोत्कट: ; निषादगान्धारबहुल: । एतस्मिन् मन्द्रस्थानस्थो मध्यमो नास्ति । कामोदं लक्षयति-तारषड्जेति। षड्जमाध्यमिका
Scanned by Gitarth Ganga Research Institute