________________
संगीतरनाकरः
[प्रकरणम् . बङ्गालोंऽशग्रहन्यासषड्जस्तुल्याखिलस्वरः।
इति प्रथमबङ्गालः ।
द्वितीयबङ्गालः मध्यमे कैशिकीजातः षड्जन्यासांशकग्रहः॥१६१॥ बङ्गालस्तारमध्यस्थपञ्चमः स्यात् समस्वरः।
इति द्वितीयबङ्गालः।
मध्यमषाडवः ऋषभांशः पञ्चमान्तः स्यादपन्यासधैवतः॥१६२॥ वीररौद्राद्भुतरसः पाल्पो मध्यमषाडवः ।
इति मध्यमषाडवः।
शुद्धभैरवः धैवतांशग्रहन्याससंयुतः स्यात् समस्वरः ।।१६३॥ तारमन्द्रोऽयमाषड्जगान्धारं शुद्धभैरवः ।
___ इति शुद्धभैरवः । एवं वाद्यनृत्तयोरपि कामचारप्रवर्तितयोदेशीत्वमवगन्तव्यम् । नियमे तु सति तेषां गीतादीनां मार्गत्वमेव, 'यो मार्गितः' इत्य दिनोक्तत्वात् ॥ १५९-१६०॥ ___ (सं०) अधुनाप्रसिद्धदेशीरागलक्षणम् । श्रीरागं लक्षयति-षड्ज इति । षड्जे षड्जनामे | पाड्जीसमुद्भूतत्वेनैव षड्जपञ्चमोत्पन्नत्वे लब्धेऽपि पुनः षड्जग्रामकथनं रागेषु जनकजातिग्रामनियमो नास्तीति सूचयितुम् | शेषाः स्वराः ऋषभपञ्चमधैवतनिषादाः ॥ १५९-१६० ॥
(सं.) बङ्गालं लक्षयति-षड्जग्राम इति । मन्द्रहीनः; मध्यतारस्वरः । तुल्यत्वं पूर्वमेव व्याख्यातम् । द्वितीयबङ्गालं लक्षयति-मध्यम इति । मध्यमे; मध्यमग्रामे |. तारमध्यस्थपञ्चमः; मन्द्रपञ्चमहीनः । मध्यमषाडवं
Scanned by Gitarth Ganga Research Institute