________________
२] द्वितीयो रागविवेकाध्यायः
११५ प्रसिद्धरागाङ्गादीनां लक्ष्ये प्रतीतानां लक्षणविरोधानां परिहारार्थमुद्यमः क्रियते । तत्र विरोधोद्भावनाप्रकारस्तावत् ग्रामद्वयाज्जात्यादिपरंपरयोत्पन्नानामेतेषां रागाणां मध्यमस्थषड्जमध्यमस्थानयोरेव तत्तन्मूर्छनारम्भपक्षाश्रयणे शास्त्रविहिते संभवत्यपि मध्यमग्रामोत्पन्नानां मध्यमादितोडीप्रभृतीनां च मध्यमध्यमारम्भं विहाय मध्यमषड्जस्थान एवारम्भो लक्ष्यते। लक्षणविरुद्धतया ग्रहस्वरायत्तोत्तरस्वरसाधारणानामभावश्च । त्रिचतु:श्रुतिकत्वेन ग्रामद्वयभेदकस्य पञ्चमस्यालोप्यत्वेन प्रयुज्यमानस्यापि सर्वरगेप्वेकरूपता । क्रियाङ्गरामक्रियायां मध्यमस्य पञ्चमश्रुतिद्वयाक्रमणं नट्टदेवक्रीप्रभृतिषु ऋषभधैवतयोरन्तरकाकल्यादिमश्रुतिद्वयाक्रमणेन प्रत्येकं पञ्चश्रुतिता च शास्त्रविवक्षिता। श्रीरागे गान्धारनिषादये.मध्यमषड्जादिमकैकश्रुत्याश्रयणेन त्रिश्रुतित्वे शास्त्रविहितेऽपि षड्जमध्यमयोरशास्त्रविहितत्रिश्रुतित्वकरणयोरर्धवैशसम् । तत्रैव ऋषभधैवतयोर्गान्धारनिषादादिमश्रुत्यक्रमणेन प्रत्येकं चतुःश्रुतित्वं वा शास्त्रविहितम्। आन्धाल्या लक्षणे पञ्चमस्य ग्रहांशत्वेक्त्या तथैव प्रस्तारे लिखितेऽपि मध्यमग्रहांशत्वेन प्रयोगः । तथा कर्णाटगौडस्य लक्षणे षड्जग्रहांशत्वेक्तौ लक्ष्ये निषादग्रहांशत्वम् । ग्रामर,गेषु हिन्दोलस्य लक्षणे रिधत्यक्तत्वेनोक्तौ रिपत्यागेन प्रयोगः । षाडवौडवेष्वपि रागेषु कचिल्लोप्यस्वरप्रयोगः ; क्वापि जन्यजनकयोमेलनभेदो रसादिविनियोगानियमश्चेति लक्ष्यलक्षणयोर्बहुधा विरोधाः ।
एकेषुणा राम इवाब्धिसालानेकोत्तरेणैव बहून् विरोधान् ।
श्रीकल्लिनाथः परिहतुकामो ब्रूते मतङ्ग दिरहस्यवेदो ॥ देशीत्वादेतेषामनियमो न दोषायेति । देशीत्वं च तत्तद्देशमनुजमनोरञ्जनैकफलत्वेन कामचारप्रवर्तितत्वम् । यथोक्तं देशीलक्षणं ग्रन्थ,दौ 'देशे देशे जनानां यत्' इति । तथा चाहाञ्जनेयः
"येषां श्रुतिस्वरग्रामजात्यादिनियमो न हि । नानादेशगतिच्छाया देशीरागास्तु ते स्मृताः ॥” इति ।
Scanned by Gitarth Ganga Research Institute