________________
११४ संगीतरत्नाकरः
[प्रकरणम् द्राविडगौडः गान्धारतिरिपोपेतः प्रस्फुरत्षड्जपश्चमः । गेयो द्राविडगौडोऽयं ग्रहांशन्याससप्तमः॥१५८॥ इति द्राविडगौडः । इति गौडोपाङ्गानि । अधुनाप्रसिद्धदेशीरागाः
श्रीरागः षड्जे षाड्जीममुद्भूतं श्रीरागं स्वल्पपश्चमम् । सन्यामांशग्रहं मन्द्रगान्धारं तारमध्यमम् ॥१५९।। समशेषस्वरं वीरे शास्ति श्रीकरणाग्रणीः।
इति श्रीरागः ।
प्रथमबङ्गाल:
षड्जग्रामे मन्द्रहीनः षड्जमध्यमया कृतः॥१६०॥
(सं०) तुरुष्कगौडं लक्षयति-गान्धारेति । मन्द्रस्वराः ताडिता यस्मिन् | द्राविडगौडं लक्षयति-गान्धारतिरिपेति । तिरिपेन वक्रोच्चारितेन गान्धारेणोपेतः । स्फुरितषड्जपञ्चमः । सप्तमो निषादः । इति जनकसहिता द्वापञ्चाशत् रागाः ॥ १५७, १५८ ॥
(क०) अधुनाप्रसिद्धदेशीरागलक्षणम् । तत्र श्रीरागलक्षणे-समशेषस्वमिति—समाः शेषाः स्वरा यस्मिन् स तथोक्तः । अत्र स्वल्पपश्चपमिति पञ्चमस्याल्पत्वविधानात्तदितरेषां स्वराणां बहुत्वे साम्यं विधीयते । यत्र यस्याल्पत्वं विधायेतरेषां समत्वविधानं तत्र तदपेक्षया बहुत्वं साम्यमेव । यत्र बहुत्वविधानादितरेषां समत्वविधिस्तत्राल्पत्वं साम्यमेवेति विवेक्तव्यम् । एतेषु देशीरागेषु यत्र तारमन्द्रयोरुभयोरेकस्य वावधिर्नोच्यते, तत्र कामचारो द्रष्टव्यः । इदानीमधुना
Scanned by Gitarth Ganga Research Institute