________________
द्वितीयो रागविवेकाध्यायः
११३
मल्हारी
मल्हारी तदुपाङ्गं स्याद्गहीना मन्द्रमध्यमा। पश्चमांशग्रहन्यासा शृङ्गारे ताडिता मता ॥ १५४॥
इति मल्हारी।
मल्हारः आन्धाल्युपाङ्गं मल्हारः षड्जपञ्चमवर्जितः। धन्यासांशग्रहो मन्द्रगान्धारस्तारसप्तमः ॥ १५५ ॥
इति मल्हारः।
कर्णाटगौडः गेयः कर्णाटगोडस्तु षड्जन्यासग्रहांशकः ।
इति कर्णाटगौडः।
देशवालगौडः स एवान्दोलितः षड्जे देशवालो रिपोज्झितः ।।
इति देशवालगौडः।
तुरुष्वगौडः गान्धारबहुलो मन्द्रताडितो रिपवर्जितः। निषादांशग्रहन्यासस्तुरुष्को गौड उच्यते ॥ १५७॥
इति तुरुष्कगौडः। (सं०) मल्हारी लक्षयति--मल्हारीति। गहीना; गान्धारवर्जिता | ताडिता; ताडितस्वरा । मल्हारं लक्षयति-आन्धाल्युपाङ्गमिति । षड्जपञ्चमाभ्यां हीनः । औडुवोऽसौ रागः । देशवालगौडं लक्षयति--स एवेति । कर्णाटगौड एव ऋषभपञ्चमोज्झितः, आन्दोलितषड्जश्च देशवालगौडः ॥ १५४-१५६ ॥
15
Scanned by Gitarth Ganga Research Institute