________________
२]
द्वितीयो रागविवेकाध्यायः
छेवाटी
हिन्दोल भाषा छेवाटी गापन्यासा धभूयसी । रिहीनांशग्रहन्यासषड्जा सगममन्द्र भाक् ॥ १४६ ॥ सगतारोत्सवे हास्ये गेया गमकसंयुता ।
१०९
सासा सासगम पापा पापम गापमगापाधागा धानी पापगम नीधापापामगपगा गसासासा सगमपपापा पमगपमगा धानीपापमगपम गपमगागसा सपानीसा सासागासा मगामप पनि सासा - इत्यालापः ।
सम गम गपा पाम पमपम गागा गागससासग
मनि निसनिसससगस मम निनि सनि साससगसगमपपसनिसागासा धानि पानी नीपा मगा गपमम गामसांसां गांगां पानी मासा गासनी सासा - इति रूपकम् ।
इति छेवाटी ।
वल्लाता
वल्लाता तदुपाङ्गं स्याद् रिहीना मन्द्रधैवता ॥ १४७ ॥ सन्यासांशग्रहा गेया शृङ्गारे शार्ङ्गिणोदिता ।
इति वल्लाता ।
भाषाङ्गत्वेऽप्युभयरूपत्वमेतस्या इत्यर्थः । अतिसामीप्यतः; समानस्थायत्वात् । छेवा लक्षयति — हिन्दोलभाषेति । गान्धारापन्यासा । धैवतबहुला । मन्द्रषडूजगान्धारमध्यमसंयुता ॥ १४४ - १४७ ॥
Scanned by Gitarth Ganga Research Institute