________________
१०८ संगीतरत्नाकरः
[प्रकरणम् धगा मरी गसा सासा सास निग सारी मागामामा रीगरीध मधममारीधा सागा साधा सामा रीमाधा गासा-इत्यालापः।
रीगसध सरीमम धमगम गामसरी सनी धासा रीगरीग माधध सससं सगरी ममधमगरिस नीधासरी गामाधमरी गमसाधनी धसरीगा माम गमधम गारी सनि धासरी गासरी गासा मागरी मारीगा सासा-इति रूपकम्।
इति कोलाहला।
रामकृतिः तजा रामकृतिर्वीरे मांशा सान्ता पवर्जिता ॥१४४॥ भाषाङ्गत्वेऽप्युपाङ्गत्वमतिसामीप्यतोऽत्र च । शादेवेन निर्णीतमन्यत्राप्यूयतां बुधैः ॥ १४५ ॥
इति रामकृतिः।
(क०) तन्जेति बहुलीपर्यायभूतां रामकृतिं लक्षयित्वा भाषाङ्गत्वेऽप्युपाङ्गत्वमतिसामीप्यतोऽत्र चेत्युक्तम् । अस्यायमर्थः–कोलाहलेत्पन्नाया रामकृतेर्भाषाङ्गत्वेऽप्यतिसामीप्यतः ; सामीप्यमत्र सादृश्यं विवक्षितम् ; तेन—-यत्र किंचित् सादृश्यं तत्रोपाङ्गत्वं ; यत्राङ्गत्वसादृश्यं तत्रोपाङ्गत्वमिति न्यायेन-अत्रपाङ्गत्वं च निर्णीतमिति । बहुलीपर्यायत्वं चास्या रामकृतेर्वाद्याध्याये वक्ष्यते॥१४४,१४५।।
(सं०) रामकृति लक्षयति-तज्जेति । मध्यमांशा । षड्जन्यासा । पञ्चमवर्जिता । ननु स्वयं भाषाङ्गे प्रयुक्ता ; अत आह-भाषाङ्गत्वेऽपीति ।
Scanned by Gitarth Ganga Research Institute